________________
छ
अध्यात्म
॥७८ ॥
20OOOOOOOOOOOOOOOOO
रूपं चारित्रं निष्प्रत्यूहमेव, 'परे तु स्वभावे आत्मनि समवस्थानमात्मद्रव्यमात्रनिरतत्वमित्यर्थः' तच्च स्वसमयपरिशी- परीक्षा ३० लनमित्युच्यते, पर्यायनिरतानां परसमयाक्रान्तत्वात् तदुक्तम् , “जे पजएसु निरदा जीवा परसमयगित्ति निद्दिहा ।। आदसहामि ठिया ते सगसमया मुणेयबत्ति।” तथा च यथा यथात्ममात्रापेक्षिणी क्रिया तथा तथा चारित्रविशु-10 द्धिरिति, सर्वथा लब्धात्मलाभानां स्वान्तर्भावेनैव कर्तादिषट्कारकीभावकिमीरितम् सिद्धानां स्वभावसमवस्थानरूपं चारित्रमप्रत्यूहमित्याहुः॥१४८ ॥ अत्रोच्यतेचरणरिउणो न जोगा अत्थसमाएण सवसंवरणं । सिद्धे तंमि सहावे समवट्ठाणंति सिद्धंतो ॥ १४९॥
चरणरिपवो न योगा अर्थसमाजेन सर्वसंवरणम् । सिद्धे तस्मिन् स्वभावे समवस्थानमिति सिद्धान्तः ॥ १४९ ॥ न खलु चरणप्रतिपन्थिचारित्रमोहसहचारिण इति योगास्तत्प्रतिपन्थिनो येन तन्निरोधेन परमचारित्रोत्पत्तिर्वक्तुं शक्येत, अन्यथा दर्शनादिप्रतिपन्थिदर्शनमोहादिसहचारित्वेन दर्शनादावपि तेषां प्रतिबन्धकत्वात् तन्निरोधेन परमदर्शनाद्युत्पत्तिमपि वक्तुं खलस्य रसनोच्छृखलायेत; ननु तर्हि शैलेश्यवस्थायां सर्वसंवरः कः? न खलु तदानीन्तनं चारित्रं प्राक्तनचारित्रादतिरिच्यते इति चेदुच्यते, तदेव यथाख्यातचारित्रं प्रतिसमयमनेक कर्म निर्जरयन् चरमनिर्जराकारणतामापन्नं सर्वसंवर इत्युच्यते इति किमनुपपन्नम्, न चैवं ज्ञानमपि सर्वसंवरः स्यात्, तस्य प्रकाशव्यापार एव विश्रामात्, कर्मापनयनस्य चारित्रव्यापारत्वात् , नन्वेवं सिद्धं नः समीहितम् , चारित्रमोहक्षयजनितस्यास्य नित्यत्वात् इति चेन्न, तादृशस्याप्यस्य वीर्यविशेषरूपत्वाद्वीर्यसामान्यं प्रत्येव चान्वयव्यतिरेकाभ्यां योगाना हेतुत्वात्त-12
9000000000000000000
७८॥
Jain Education in
For Private & Personal Use Only
W
aiainelibrary.org