SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ अध्यात्म 10000000000006650000CC परमयथाख्यातरूपं चारित्रमुन्मीलतीतितन्निरोधादेव तदुत्पाद इति, वस्तुतस्तु परमस्थैर्यरूपं पार्यन्तिकचारित्रं योगो परीक्षा वृ० पनीतचलोपकरणताप्रतिबन्ध्य(द्ध)मित्येव तन्निरोधेन तदुत्पादः, युक्तं चैतत्, अन्यथा सयोगिकेवलिनामपि भु(मु)क्ति-16 प्रसङ्गात् , ज्ञानदर्शनचारित्ररूपस्य मोक्षमार्गस्य तदानीमबाधितत्वात्, न च कारणान्तरविलम्बादेव तद्विलम्बो युक्तः,I समुदितानामेतेषामविलम्ब्यकारणत्वप्रतिपादनायैव “ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इति सूत्रे विशेषणविशेष्यभावेपि वचनभेदनिर्देशात्, तस्मात्तदानीं योगनिरोधोपनीतपरमचारित्राभावादेव परमज्ञानदर्शनसत्त्वेपि न मोक्षोत्पाद इति युक्तमुत्पश्याम:, “सो उभयक्खयहेऊ" इत्यादिवचनान्यप्येतदर्थानुपातीनि, शैलेशीचरमसमय|भाविनश्चारित्ररूपधर्मस्य शाश्वतस्यैव सतो मोक्षजनकत्वात् । तदानीं चारित्रनाशे च यदेवोत्पद्यते तदेव नाश्यत इति महत्सङ्कटम् , यैरप्युच्यते प्रयत्नविशेषरूपं प्रवाहिचारित्रं तदानीं नश्यतीति, तेषामपि तन्मोक्षजनकमिति वचोव्याघातमानोति, न खलु कार्योत्पादसमयेऽसतः कारणत्वं नाम, तद्वयतिरेके तद्वयतिरेकाभावात् , अथ कार्याव्यवहितपूर्ववर्तित्वमेव कारणत्वम् न तु कार्यकालवृत्तित्वमपि तत्र निवेशने (विशते)मानाभावाद्गौरवात् प्रागभावादीनामकारणत्वप्रसङ्गाच्चेति, मोक्षोत्पादसमये नश्वरस्यापि तस्य तदव्यवहितपूर्ववर्तितयैव तत्कारणत्वं निराबाधमितिचेत्तथापि नाशकमेव किमिति पृच्छामः, मोक्षोत्पादकमेव तन्नाशकमितिचेन्न, स्वस्यापि तथात्वेन स्वस्य स्वनाशकत्वप्रसङ्गात् , मोक्षसामग्री तन्नाशिकेतिचेन्न, सामग्रीत्वेनानाशकत्वात् , अन्त्यक्षण एव तन्नाशक इति चेन्न, क्षणस्य विशिष्याहेतुत्वात् । अपि चैवं निश्चयनयानुरोधो न स्यात्, न ह्यसौ कार्याव्यवहितपूर्वकालवर्त्तिनं कारणं मन्यतेऽपि तु कार्यकालव 000000000000000000 Jain Education For Private & Personel Use Only IAM .jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy