SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Jain Education 00000 चणं भन्ते सया समियं नो एयइ जाव नो तं तं भावं परिणमइ तावं च णं तस्स जीवस्स अन्ते अन्तकिरिया हवइ ? हंता जाव हवईत्यादि" नो एयइत्ति शैलेशीकरणाद्योगनिरोधान्नो एजत इति, एजनादिरहितस्तु नारम्भादिषु वर्त्तते, तथा च न प्राणादीनां दुःखापनादिषु, तथा च योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वंसरूपान्तक्रिया भवतीति; एवं चान्तक्रियापि शैलेश्येवेति सिद्धम्, अक्रियापि च सैवाक्रियापदस्य योगनिरोधे रूढत्वात् एवं चाक्रिया न क्रियेत्यनयोः समानार्थकत्वादक्रियायां सिद्धिपर्यवसानफलत्वं प्रतिपाद्यमानं क्रियायामेव विश्राम्यतीति न कोऽपि दोष:; युक्तं चैतत् “नाणकिरियाहि मोक्खो " इत्यादिना भाष्यकारेणापि ज्ञानक्रियाभ्यामेव तल्लाभप्रतिपादनात् ; नवाक्रियया मोक्ष इति सूत्रमूढतया भाव्यम्, तत्र क्रियापदस्य प्रवृत्तिपरतया, नञश्च पर्युदासवृत्तितया, सर्व संवररूपनिवृतिप्रयत्नस्यैवाभिधानात् ॥ १४६ ॥ नन्वयं सर्वसंवरो न निवृत्तिरूपः प्रयत्नः, अपि तु स्वहेतुबलाधीनकर्मपुद्गलादानच्छेदरूप एवेति चेन्न तद्धेतोरेव प्रयत्नरूपत्वादन्यथा मोक्षस्यापुरुषार्थत्वापत्तेः, पुरुषकृत्यो (त्युत्पाद्यो ह्यर्थः पुरुषार्थ इति शङ्कते - नणु जोगनिरोहेणं चारित्तं सासयं परं होउ । अन्नह तेण न मोक्खो उद्भवकाले असंतेणं ॥ १४७ ॥ ननु योगनिरोधेन चारित्र शाश्वतं परं भवतु । अन्यथा तेन न मोक्ष उद्भवकालेऽसता ॥ १४७ ॥ यद्यपि चारित्रमोहक्षयेण यथाख्यातचारित्रमुदपादि, तथापि योगनिरोधेन परमयधाख्यातरूपं चारित्रमुत्पाद्यताम् ; तत्त्वतश्चारित्रमोहस्य तत्प्रतिपन्थित्वेपि व्यवहाराद्योगानामपि तत्प्रतिपन्थित्वाद्यथा खल्वचौरोऽपि चौरसंसर्गितया चौरइति व्यपदिश्यते तथा तत्त्वतस्तदप्रतिपन्थित्वेपि तत्प्रतिपन्धिमोहसाहचर्याद्योगा अपि तथा व्यपदिश्यन्ते; तथा च तेषु जाग्रत्सु, न For Private & Personal Use Only ainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy