________________
00000
अध्यात्म
॥७६॥
00000000000000000
सन्तरितयोनिदर्शनयोरिव प्रवाहापेक्षयैव शाश्वतत्वमितिचेत्, स प्रवाहो यन्निमित्ताधीनस्तन्निमित्तनाशात्तन्नाशपरीक्षावृ०
इति सिद्धम् चरणदानादिलब्धीनां सादिसान्तक्षायिकभावत्वम्, अथ ज्ञानादिप्रवाह इव चारित्रादिप्रवाहोपि न बाह्यनिमित्ताधीनः, किन्तु स्वाभाविक एवेतिचेन्न; एवं सत्यव्यापृतवीर्येभ्यस्तीर्थकरादिभ्यस्तीर्थाप्रवृत्तिप्रसङ्गात्, एतेन स्वरूपापेक्षयापि शाश्वतत्वमविकारित्वं च परास्तम् । यत्तु मतिज्ञानादीनामिव चरणदानादिलब्धीनां योगसापेक्षाणां विकारित्वमन्यासां त्वविकारित्वं केवलज्ञानस्येवेति, तदसत्, एवं सति मतिज्ञानकेवलज्ञानयोरिव तासां परस्परं स्वरूपवैलक्षण्यप्रसङ्गादितिदिग्,॥१४५॥ ननु तथापि "साणं भन्ते अकिरिया किं फला ? गोयमा ! सिद्धिगमणप-10 जवसाणफला पन्नत्ता" इति सूत्रेणाक्रियाया एव सिद्धिगमनपर्यवसानफलत्वप्रतिपादनात् कथं क्रियारूपस्य चारित्रस्य तथात्वमित्यत्राशङ्कायामाहअंते य अंतकिरिया सेलेसी अकिरिय त्ति एगट्ठा। नाणकिरियाहि मोक्खो एत्तो चिय जुज्जए एयं ॥१४६॥10
___ अन्ते चान्तक्रिया शैलेश्यक्रियेत्येकार्थाः । ज्ञानक्रियाभ्यां मोक्षोऽत एव युज्यत एतत् ॥ १४६ ॥ अन्तेऽन्तक्रिया शैलेशी अक्रियेति च खल्वेकार्था एव नानाशब्दाः, कथमितिचेदुच्यते, शैलेशस्येव मेरोरिव निष्प्रकम्पावस्था खलु शैलेशी, सैव चान्तेऽन्तक्रियेत्यभिधीयते, एजनादीनां तद्विरोधित्वात्, अनेजनादीनां च तदुपकारित्वात्, तथा च प्रज्ञप्तिः। "जावं चणं एस जीवे सया समियं जाव परिणमइ तावं च णं तस्स जीवस्स अंते अंतकिरिया हवइ ? मियपुत्ता नो इणहे समढे" इत्यादि "अन्तेत्ति" मरणान्ते "अंतकिरियत्ति" सकलकर्मक्षयरूपा, तथा "जावं |
CG006 OC5O6GGGO0000000000
Jain Education internation
For Private & Personel Use Only
ainelibrary.org