________________
0000000000000000000000000
यदार्षम् "तत्थ णं जे ते सेलेसीपडिवन्नया तेणं लद्धिवीरिएणं सवीरिया करणवीरिएणं अवीरियत्ति " अत एव
तेषां सर्वसंवरः सङ्गच्छते उक्तं च “अयोगिकेवलिष्वेव; सर्वतस्संवरो मतः" इति, शैलेश्यवस्थाचरमसमये सकलककामप्रकृतिक्षये हि कर्मनोकर्मणां कात्स्न्येन संवरः, अयमेव च नैश्चयिको धर्मः अधर्मक्षयहेतुरिति गीयते, नन्वयं
सर्वसंवरः सिद्धेष्वपि संभवीति कथं तेषां न चारित्रम् , उच्यते, सिद्धिगमनसमये वीर्यस्य क्षयेण तेषां वीर्यविशेषरूपचारित्रासंभवात् , प्रज्ञप्तं च प्रज्ञप्तौ; "तत्थणं जे ते असंसारसमावण्णगा तेणं सिद्धा सिद्धाणं अवीरियत्ति " यत्तु सकरणवीर्याभावादवीर्याः सिद्धा इत्येतत्सूत्रव्याख्यानं तन्मतान्तराभिप्रायेण संभाव्यते, अन्यथा "तस्सोदइयाईया
भवत्तं च विणिवत्तए समयं । संमत्तंनाणदंसणसुयसिद्धत्ताइमोत्तूणं । तथा-समत्तचरित्ताई साइसंतोअ उवसमिओ अ। सादाणाइलद्धिपणगं चरणं पि य खाइओ भावोत्ति" भगवद्भाष्यकारवचोविरोधप्रसङ्गात् । किं च सिद्धानां लब्धिवीर्यसत्त्वे
"सिद्धा णं लक्विीरिएणं सवीरिया करणवीरिएणं अवीरिय त्ति" सूत्रकल्पनं स्यात्, यथा तत्थ ण जे ते सेलेसीपडिवन्नया ते णं लद्धिवीरिएणं सवीरिया करणवीरिएणं अवीरिय त्ति ।" अथ शैलेशीप्रतिपन्नसिद्धयोर्लब्धिवीर्याविशेषेपि स्वरूपसत्कारणस्याप्यभावात्सिद्धानामवीर्यत्वव्यपदेश इतिचेन्न, एवंविधे हि विवादे भाष्यकारो यमर्थमनुमन्यते तमेवार्थ प्रमाणयामः, अथ चरणदानादिलब्धीनां विकारिणीनामेव तदानीमुपक्षयोऽविकारिणीनां तु सुतरां संभवो, विकारिगुणोपक्षयेऽविकारिगुणप्रादुर्भावनियमात् इतिचेत्, किमिदं विकारित्वं ? शरीराद्यपेक्षया प्रवर्त्तमानत्वं तदुत्पाद्यमानत्वं वा, नाद्यः, केवलज्ञानादेरपि तथाभावप्रसङ्गात्, न द्वितीयः, क्षायिकभावस्य शाश्वतत्वात् , समया
000000000000000000000
Jain Education Intemangat
For Private & Personal Use Only
www.jainelibrary.org