SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ अध्यात्मक ॥७५ ॥ 00000000000000000000000 यदि चारित्रं शुद्धोपयोगरूपम् , तदा केवलज्ञानम्, केवलदर्शनम्, यथाख्यातचारित्रं चेति त्रय उपयोगाः केव | परीक्षा वृ. लिनां प्राप्ता इति, केवलिनो द्वावुपयोगी इत्यागमविरोधः, एवं चारित्रेण सह पर्याप्तसंज्ञिनोऽपि त्रयोदशोपयोगाः प्राप्ता इति; "पजसन्निसु बार उवओगा" इत्याधुपप्लवान्महदुत्सूत्रसूत्रणसूत्रधारायितं देवानांप्रियस्य; अथ शुद्धोपयोगरूपस्य चारित्रस्योपयोगमार्गणाधिकारे साकारतया ज्ञान एवान्तर्भावान्न दोष इति चेत्, हन्त, तर्हि साका-101 रोपयोगविभाग एव का व्यवस्था ? तदात्तज्ञानव्यक्तावन्तभावान्नाव्यवस्थेतिचेत्, तर्हि विशिष्टं ज्ञानमेव तदिति तदतिरिक्तचारित्रकथापि निर्मूला; कर्मवैचित्र्यात्तद्वैचित्र्यमितिचेत्तर्हि पृथग्भूतस्य सतोऽस्य नोपयोगत्वं, उपयोगत्वे वा प्रागुक्तदोषानुपरम इति उभयत्रपाशारजः, तस्मादुत्सूत्रप्ररूपणमुत्सृज्य योगस्थैर्यरूपमेव चारित्रमभ्युपेयं ॥१४४॥ ननु योगस्थैर्यरूपःप्रयत्नः सयोगानामस्तु; अयोगानां तु योगाभावादेव तदभावात्कथं शैलेश्यां चारित्रसम्भव इत्याशङ्कायामाहसेलेसीए जत्तो निवित्तिरूवो सचेव थिरभावो। नय सो सिद्धाणं पिय जंतेसिं वीरियं नत्थि ॥१४५॥ शैलेश्यां यत्नो निवृत्तिरूपः स चैव स्थिरभावः । न च स सिद्धानामपि च यत्तेषां वीर्य नास्ति ॥ १४५॥ शैलेश्यामपि योगनिरोधोपनीतत्रिगुप्तिसाम्राज्यलक्षणनिवृत्तिप्रयत्नसद्भावात् परमयोगस्थैर्यरूपं चारित्रं निराबाधम् ; समितिसाम्राज्यलक्षणस्य प्रवृत्तिरूपस्य योगोपनीतस्य चारित्रस्य बाधेपि तदबाधात्; न च वीर्य विना वीयविशेषरूपं चारित्रं कथमिति वाच्यम्, शैलेशीप्रतिपन्नानां करणवीर्याभावेपि लब्धिवीर्यस्याबाधितत्वात्। 000000000000000000000 Jain Education a l For Private & Personal Use Only Mjainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy