________________
10000
णेsपि मूलतोऽनपायात् यदागमः " सच्चेवि य अइयारा संजलणाणं तु उदयओ हुंति । मूलच्छेजं पुण होइ बारसहं कसायाणंति । ” युक्तं चैतत् यथाहि - वज्रं ज्वलनसंपर्कादुष्णीभवति, न तु मूलतो विनश्यन्ति, तथा संज्वलनादपि | चारित्रं सातिचारतामञ्चति न तु मूलतो विनश्यति उक्तं च "एवं विहाणा वि इहं चरणं दिडं तिलोगनाहेहिं । जोगाण थिरो भावो जम्हा एएसि सुद्धो उ ॥ १ ॥ अथिरो अ होइ भावो सहकारिवसेण ण पुण तं हणई। जलणा जायइ उन्हं वज्जं ण य चयइ तत्तंपि ॥ ३ ॥ नन्वेवमुत्तरगुणातिक्रमे निर्भङ्गचारित्रमापन्नमिति चेदिदमित्थमेव, कः किमाह ? उक्तंच | पंचाशके “गुरुगुणरहिओ वि इहं दट्ठवो मूलगुणविउत्तो जो । नहु गुणमेत्तविहुणोत्ति चण्डरुद्दो उदाहरणं ॥ १ ॥” ननु मूलगुणेषु स्थिरभावश्चारित्रमिति तावद्भवतां प्रतिज्ञा, स च शुद्धोपयोगरूप एव पर्यवस्यति, तेनैव सकलमूलगुणपरिपालनसंभवात् तस्यैव च मरुदेव्यादावपि सम्भवादितिचेन्न, प्रवृत्तिरूपप्रयत्नस्य तत्रासम्भवेपि निवृत्तिरूप, प्रयत्नस्य सुतरां सम्भवात् प्रयत्न एवायमितिचेन्नात्यन्तसंयमे प्रयत्न एव चारित्रम्, "माणुसतं सुई सद्धासंजमंमि य वीरियं;" इत्यादौ तथोपदेशात् “भगवद्दर्शनानन्दयोगस्थैर्यमुपेयुषः केवलज्ञानमम्लानमाससाद तदैव सेति " योगशास्त्रवृत्तौ मरुदेव्या अपि योगस्थैर्यरूपचारित्रप्राप्तेरेव सूचनात् ॥ १४३ ॥ चारित्रस्योपयोग
रूपत्वे दूषणान्तरमप्याह
चरणं जइ उवओगो जिणाण ता हुंति तिन्नि उवओगा। दोसु अ
Jain Education International
अंतरभावे ततिअस्स पकप्पणा मोहा१४४
चरणं यद्युपयोगो जिनानां तद्भवन्तु त्रय उपयोगाः । द्वयोश्चान्तर्भावे तृतीयस्य प्रकल्पना मोघा ॥ १४४ ॥
For Private & Personal Use Only
900906
www.jainelibrary.org