SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ अध्यात्म० दियमप्यौदायिक व्यपदिश्येत, न तु क्षायोपशमिकम् , न चैवमस्ति क्षायोपशमिकानीन्द्रियाणीतिवचनात, अथैव-II परीक्षा वृ० मनन्तानुबन्ध्यादीनां तत्र प्रतिबन्धकत्वं न स्यात्, निष्कषायपरिणामरूपतायामेव तस्य कषायाणां प्रतिपन्थित्वसंभवा॥७४॥ दितिचेन्न, न हि कषायचारित्रयोश्छायातपयोरिव परस्परपरिहाररूपतया विरोधो नाम, अपि तु जलज्वलनयोरिव सहानवस्थास्नुस्वभावतया, सच परस्पराभावरूपतां विनैव संभवी, युक्तं चैतत् तीव्रतरकपायाणामेवैवं तत्प्रतिपन्धित्वात् , अल्पीयसोऽसामर्थ्यात्, न हि जलकणिकामात्रेण ज्वालाजालजटिलो वह्निरुपशाम्यति, अन्यथा तु संज्वलनकषायाणामपि चारित्रप्रतिबन्धकत्वप्रसङ्गः, न हि कषायपरिणामे जाग्रति निष्कषायपरिणामरूपं चारित्रमवतिष्ठते; कषायकणवान्तस्वान्तशुद्धयः शुद्धोपयोगरूपं परमचारित्रं परित्यज्य शुभोपयोगरूपं गौणचारित्रमेवाददत इति चेन्न, तथापि प्रशस्तालम्बनं विनापि कर्मपारवश्येन कषायवशीकृतानामपि मूलगुणेषु यतनया प्रवर्त्तमानानां चारित्रभङ्गप्रसङ्गः, इष्टमेवेदमितिचेत्सेयं दुराशयस्य दिगम्बरस्यैव प्रक्रिया न त्वस्माकं, तीर्थप्रवृत्तेरुच्छेदप्रसङ्गादित्यभिप्रेत्याह__ अन्नह वक्कजडाणं चंडाणं चंडरुद्दपभिईणं । णेव सिया चारित्तं सुद्धवओगेत्ति काऊणं ॥१४३॥ अन्यथा वक्रजडानां चण्डानां चण्डरुद्रप्रभृतीनाम् । नैव स्याचारित्रं शुद्धोपयोग इति कृत्वा ॥ १४३ ॥ ॥ ७४ ॥ ये हि वक्रजडा निष्कारणमेव कौटिल्यमाचरन्ति, ये च चण्डरुद्राचार्यप्रभृतयो निष्कारणमेव कुप्यन्ति, न तेषां कमायाक्रोधौ प्रशस्तरागाप्रवृत्ततया शुभाविति नोज्जीवति शुभोपयोगः, तदनवकाशे तु शुद्धोपयोगोऽपि दूर एवेति कथं 6 तेषां चारित्रवार्तापि ? योगस्थैर्यरूपचारित्राभ्युपगमे तु न किञ्चिदनुपपन्नम् , सज्वलनमायाकोपाभ्यां तस्यातिचारकर 000000000000000000000000 0000000000000000000000 Jain Education For Private & Personal Use Only Jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy