SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 100000000000000000000000 एत्थ समाहाणविही जो मूलगुणेसु होज थिरभावो।सो परिणामो किरिया झुंजणकरणं पडिच्छंतो॥१४२॥ __ अत्र समाधानविधिर्यो मूलगुणेषु भवेत् स्थिरभावः । स परिणामः क्रिया युजनाकरणं प्रतीच्छन् । १४२ ।। __यः खलु मूलगुणेषु स्थिरभावः स प्राणातिपातादिनिवृत्तरूपा क्रियैव युञ्जनाकरणसापेक्षत्वात् वीर्यान्तरायक्षयोपशमादिजन्येपि तत्र योगस्यैव करणत्वात् । इत्थं च योगपरिणाम एव चारित्रं न तूपयोग एव ॥१४२॥ नन्वेवं चारित्राचारवीर्याचारयोर्भेदो न स्यादिति चेन्न, मूलगुणविषयकवीर्यस्य चारित्ररूपत्वेपि तत्कारणविषयकवीर्यस्य वीर्याचाररूपत्वात् ; उपाधिमात्रभेदप्रयुक्तभेदानङ्गीकारे ज्ञानाचारादीनामपि वीर्याचारान्तर्भावप्रसङ्गात् । स्यादेतत् , ज्ञानाचारादयो ज्ञानादिकमिव चारित्राचारोपि चारित्रं पृथगेव सूचयति, मैवं, वीर्यस्याप्याचारपृथग्भावप्रसङ्गात्, स्यादेतत्, चारित्रस्य वीर्यरूपत्वे औपशमिकत्वं न स्यात्, तस्यानौपशमिकत्वान्मोहव्यतिरिक्तकर्मणामुपशमानुपदेशात् उक्तं च “ मोहे वसमो मीसे चउघाइसु अढकम्मसु य सेसत्ति" मैवं, यदि हि वयं वीर्यान्तरायकर्मक्षयोपशमजन्यतयैव वीर्यरूपं चारित्रं प्रतिपादयामस्तदैवेदं दृषणमापतेत, नत्वेवं, किन्तु चारित्रमोहकर्मक्षयक्षयोपशमोपशमान्यतरजन्यस्यापि तस्य योगजन्यतयैव तथात्वमिति; न चैकस्य कथं नानाकर्मपरिणतिजन्यत्वमितिवाच्यम्, एकत्रैवेन्द्रिये ज्ञानावरणदर्शनावरणवीर्यान्तरायकर्मक्षयोपशमनामकर्मोदयाद्यपेक्षादर्शनात्, प्रधानाश्रयणेन च व्यपदेशप्रवृत्तिरिति मोहोपशमदशायामपि क्षायोपशमिकवीर्यमादाय न चारित्रस्य तथात्वव्यपदेशः, अन्यथा इन्द्रियपर्याप्युदयजन्यत्वेने 000000000009990000000000 Join Education For Private Personal Use Only ainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy