SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ OOOOOOOOOOOOOOOOOOOOOO सुखयोरवैलक्षण्यप्रसङ्गो, जीवन्मुक्तिवादिनामिष्टमिदमिति चेन्न, तस्याज्ञानादिकप्रकर्षमाश्रित्यैवाभ्युपगमसंभवादन्यथा सिद्धान्तविरोधादिति किमुत्सूत्रप्ररूपणप्रवणेन सह विचारणया ॥१३०॥ अथैवं व्यवस्थापितेषूक्तसिद्धगुणेषूपन्यस्तं चारित्रमसहमानः सिद्धान्तपक्षावलम्बी विमृशतिनणु सिद्धंते सिद्धो नोचारित्ती अ णोअचारित्ती।भणिओ तो तस्स गुणोचारित्तं जुज्जए कम्हा॥१३१॥ मनु सिद्धान्ते सिद्धो नो चारित्रीच नो अचारित्री। भणितः तत्तस्य गुणश्चारित्रं युज्यते कस्मात् ।। १३१ ॥ __यथाहि-" सिद्धे णो भवे णो अभवे" इति वचनात्तस्य न भव्यत्वं नाप्यभव्यत्वमेवं “सिद्धे णो चरित्तीणो अचरित्ती” इति वचनात्तस्य(न) चारित्रं नाप्यचारित्रमिति कथमस्य चारित्रं गुण इति प्रतिज्ञायते; ननु चारित्राभावेनाचारि |त्रित्वस्योक्तिसहत्वेऽपि कथमस्य नो अचारित्रित्वमिति चेन्न, नो विरुद्धार्थकत्वेन चारित्रविरोधिनोऽविरतिपरिणामस्याचारित्रपदार्थत्वादू , अथाभावार्थकनाश्रयणेनाचारित्री सिद्ध इत्येव कुतो नोपदिश्यत इति चेन्न, समयाम्नायानुभवोपनीतसंस्कारमहिम्नाऽचारित्रपदादविरतिपरिणामस्यैव झटित्युपस्थितौ तथोपन्यासस्यासांप्रदायिकत्वात्तादृशपदादू गुणाभावदोपान्यतरस्फूर्तिमात्रजनितकठिनभाषानुबन्धिदोषप्रसङ्गाच्च, न च नो अचारित्रीत्युक्त्यैव चरितार्थत्वं, चारित्राकानया अपरिपूर्तरथोन्तरप्रसङ्गादित्थं च नो चारित्तीत्यत्र नोपदविनिर्मोकेन नजपदप्रश्लेषेऽपि विरुद्धोपस्थित्यादिकमेव दूषकताबीजं द्रष्टव्यं, अत एव गुणाभावस्थल एव विरुद्धोपस्थितिनिरासाय तथाप्रयोगो, नत्वन्यत्रेति बोध्यम् ॥१३१॥ परः शङ्कते 2000000000000000000000000 Jain Education in For Private & Personal Use Only hidainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy