________________
अध्यात्म
॥६८॥
1000000000000000000000000
विरियावगाहणाउ पत्तेअंणामगोत्तकम्मखए। चरणं चिय मोहखए इय अहगुणत्ति बिंति परे ॥१३०॥ परीक्षा ७०
स्थिरतावगाहने प्रत्येकं नामगोत्रकर्मक्षये । चरणमेव मोहक्षये इत्यष्टौ गुणा इति ब्रुवते परे ॥१३०॥ परे पुनरुक्तेषु गुणेषु मोहक्षयजन्यं चरणलक्षणमेकमेव गुणमादृत्य नामगोत्रक्षयजन्ये च पृथगेव स्थैर्यावगाहने गुणौ। स्वीकृत्याष्टसंख्यां पूरयन्ति, तच्चिन्त्यम्, अवगाहनायाः स्वप्रतिबन्धकनामकर्मक्षयजन्यत्वेन गोत्रकर्मक्षयजन्यत्वाभावादू, अमूर्तीवगाहनाया नामकर्मक्षयजन्यत्वेप्यनन्तावगाहनात्वेन गोत्रकर्मक्षयजन्यतेति चेन्नानन्तावगाहनात्वस्यार्थसमाजसि-18 द्धत्वादू , अपि च येयं नामकर्मक्षयजन्या स्थिरता प्रतिपाद्यते, सा यदि कार्मणशरीरविलयोपनीतप्रदेशचाञ्चल्यविलयरूपा सा नूनं शैलेश्यवस्थाचरमसमयभावी सर्वसंवररूपश्चरणधर्म एव, चारित्रत्वेन चारित्रावरणकर्मक्षयजन्यत्वेऽपि प्रकृ-2 ष्टचारित्रत्वेन योगनिरोधजन्यत्वादिति स्फुटीभविष्यत्यग्रे; तथाच चारित्रस्थिरतयोरैक्येन यथोक्तपरिगणनभङ्गप्रस-1 ङ्गोऽपि च यत्सामान्यावच्छेदेन यत्कर्मक्षयजन्यत्वं तत्सामान्याक्रान्तस्य तजन्यगुणत्वव्यवहारोऽन्यथा मोहक्षयस्य सुख-16 विशेषहेतुत्वेन सुखस्य मोहक्षयजन्यगुणत्वेन व्यवहारप्रसङ्गादेवं च चारित्रमात्रे नामकर्मक्षयस्याहेतुत्वान्न तस्य तज्जन्य-10 गुणत्वं, एतेन मोहक्षयजन्यः सम्यक्त्वमेव गुणश्चारित्रं तु नामकर्मक्षयजन्यमेव स्थिरतापदप्रतिपाद्यमिति कल्पनापि
॥६८॥ परास्ता; एतेनैव च सुखं मोहक्षयजन्य एव गुण इत्यपि निरस्तम् , एवं सप्ताष्टसंख्यापरिगणनभङ्गप्रसङ्गादिनीक्षयस्य निरर्थकत्वप्रसङ्गाच्च, अव्यबाधत्वं वेदनीयक्षयस्य फलमिति न दोष इति चेन्न; तद्धि दुःखाननुविद्धसुखमेव नत्वन्यत् सकलकर्मजन्याकुलताविलयस्य तत्त्वे तु तस्य कृत्स्नकर्मक्षयजन्यत्वमेव युक्तं नत्वेकजन्यत्वं, किश्चैवं भवस्थवीतरागसिद्ध-10
00000000000000000000
Jain Education
a
l
For Private & Personal Use Only
Mw.jainelibrary.org