SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Jain Education नाणावरणाईणं कम्माणं अट्ठ जे ठिआ दोसा । तेसु गएसु पणासं एए अट्ठवि गुणा जाया ॥ १२९ ॥ ज्ञानावरणादीनां कर्मणामष्ट ये स्थिता दोषाः । तेषु गतेषु प्रणाशं एतेऽष्टापि गुणा जाताः ।। १२९ ।। तस्य हि भगवतो ज्ञानावरणक्षयादनन्तं ज्ञानं, दर्शनावरणक्षयादनन्तं दर्शनं, वेदनीयक्षयात् क्षायिकं सुखं, मोहक्षयात् क्षायिक सम्यक्त्व चारित्रे, आयुः कर्मक्षयादक्षया स्थितिः, नामगोत्रयोः क्षयादनन्तानामेकत्रावगाहना, अन्तरायक्षयादनन्तवीर्य, | चेत्यष्टौ गुणाः प्रादुर्भवन्ति “अनन्तं केवलज्ञानं ज्ञानावरणसंक्षयात् । अनन्तं दर्शनं चापि, दर्शनावरणक्षयात् ॥१॥ क्षायिके शुद्धसम्यक्त्व चारित्रे मोहनिग्रहात् । अनन्ते सुखवीर्ये च वेद्यविघ्नक्षयात् क्रमात् ॥२॥ आयुषः क्षीणभावत्वात्, सिद्धानामक्षया स्थितिः । नामगोत्रक्षया देवामूर्त्तानन्तावगाहनेति ॥ ३ ॥ अत्र मोहक्षयजन्यं गुणद्वयं नामगोत्रक्षयजन्यस्त्वेक एव गुण इत्यत्र परिभाषैव शरणम्, अन्यथाऽवान्तरविशेषानाश्रित्यानन्तगुणसभंवादन्यथा न्यूनत्वसभंवाच्च । स्यादेतदवगाहना नात्मनो गुणः किन्तु व्योम्न एव, तस्यैव तद्गुणत्वेन व्यवस्थितत्वाद्, न च तस्य सामान्यतोऽवगाहनागुणवत्त्वेप्यनन्तानामेकत्रावगाह| नात्मन एव गुण इति वाच्यम्, अनन्तानामप्यमूर्त्तत्वेन प्रतिघाताभावेन तेनैवैकत्रावगाहनादानाद्, मैवं प्रतिघातस्य नामकमपनीतशरीरजनितत्वेन तदभावप्रयुक्तप्रतिघाताभावेनैव तदवगाहनायाः संभवात्तस्या आत्मगुणत्वाद्, तथापि तस्या नामकर्मप्रतिबद्ध्य (ख) त्वमस्तु नतु गोत्रप्रतिबद्ध्य (द्ध) त्वमिति चेन्न, नामगोत्रयोर्मिलितयोरेव तत्र तत्रोपन्यास बलेनैकत्र द्वययोगा| गोत्रकर्मक्षयजन्य स्याविशेषव्यवहारस्य गुणस्य सत्त्वेऽपि प्राधान्येन नामकर्मक्षयजन्यस्यावगाहनागुणस्यैव वा तज्जन्यत्वप्रतिज्ञा ज्ञानावरणक्षयजन्येपि केवलज्ञाने मोहक्षयजन्यत्वप्रतिज्ञावदौचितीमञ्चतीति न कोपि दोषः ॥ १२९॥ अन्येषां मतमाह For Private & Personal Use Only 900300999900900000৫ www.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy