SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ GROOT अध्यात्म० मोहविलएण नाणं णामुदया चेव तस्स पारंमं । तो वण्णाइविसेसो तं होउ ण धाउरहिअत्तं ॥११५॥ परीक्षावृ० मोहविलयेन ज्ञानं नामोदयाच्चैव तस्य पारम्यम् । तद्वर्णादिविशेषः तद्भवतु न धातुरहितत्वम् ॥ ११५ ॥ PI " संघयणरूवसंठाणवण्णगइसत्तसारऊसासा । एमाइणुत्तराई हवंति णामोदया तस्स ॥१॥" इति वचनाद्भ गवतां देहे नामकर्मोदयातिशयावर्णाद्यतिशय एव पारम्यं, नतु सर्वथा धातुरहितस्वं, मोहक्षयस्य तत्रातन्त्रत्वाद्, नामकर्मातिशयस्य वर्णाद्यतिशय एवोपयोगित्वात्तथैवोपदेशात्तदतिशयकारिणीनां लब्धीनामपि वर्णाद्यतिशायकत्वस्यैव भणनात्तदुक्तं “ तथाहि योगमाहात्म्याद्योगिनां कफबिन्दवः । सनत्कुमारादेरिव, जायते(न्ते) सर्वरुछिदः ॥१॥ तथा । योगिनां योगमाहात्म्यात्पुरीषमपि कल्पते । रोगिणां रोगनाशाय, कुमुदामोदशालि च ॥१॥ मलः किल समाम्नातो, द्विविधः सर्वदेहिनाम् । कर्णनेत्रादिजन्मैको, द्वितीयस्तु वपुर्भवः ॥३॥ योगिनां योगसंपत्ति|माहात्म्याद्विविधोऽपि सः। कस्तूरिकापरिमलो, रोगहा सर्वरोगिणाम् ॥४॥ योगिनां कायसंस्पर्शः, सिञ्चन्निव सुधारसैः। क्षिणोति तत्क्षणं सर्वा-नामयानामयाविनाम् ॥ ५ ॥ नखाः केशा रदाश्चान्यदपि योगशरीरजम् । भजते भैषजीभावमिति सवौषधिः स्मृता ॥६॥ तथाहि तीर्थनाथानां, योगिनां चक्रवर्त्तिनाम् । देहास्थिसकलस्तोमः, १ ।। सर्वस्वर्गेषु पूज्यते ॥७॥” इति, एवं च भगवतां कवलाहारस्वीकारे न किश्चित् (क्षो) क्ष्यते, तेन क्षुद्वेदना-16 नाशात्तज्जन्यमलस्य चलब्धिविशेषेण सुरभीकरणातूनच भगवतां जाठरानलनाश एव युक्तो,मोहक्षयस्य तदनाशकत्वाल 00000000000000000000000 PEOS 0000000 JainEducatior g ional For Private Personel Use Only wjainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy