________________
®®®®®®®®®®®®®
ब्धिविशेषस्य तन्नाशकत्वे च तत्कारणीभूततैजसशरीरविघटनप्रसङ्गालब्धीनां कारणघटनविघटनद्वारैव कार्यघटनविघटनयोस्तन्त्रत्वात् ॥११५॥ अपि च परमौदारिकाभ्युपगमेऽपि तस्थितिवृद्धी आहारपुद्गलापेक्षे एवेति प्रमाणयतिओरालिअत्तणेणं तह परमोरालिअंपि केवलिणो। कवलाहारावेक्खं ठिइंच वुडिं च पाउणइ ॥ ११६॥
औदारिकत्वेन तथा परमौदारिकमपि केवलिनः । कवलाहारापेक्षा स्थितिं च वृद्धिं च प्राप्नोति ॥ ११६ ॥ __ परमौदारिकस्थितिः खल्वौदारिकस्थितित्वेन कवलाहारापेक्षिणी, न च तदनपेक्षिण्यां वनस्पत्यादिशरीरस्थिती व्यभिचारः, क्षुजनितकाश्यादिपरिहारण धातूपचयादिद्वारा धातुमच्छरीरस्यैव तजन्यत्वात्स्थितौ तजन्यत्वस्योपचाराद्धातुमत्त्वस्य चोपलक्षणत्वान्न परमौदारिकस्य तथात्वं, विशेषणत्वेऽपि संहननोपष्टब्धस्य तस्य परेणापि धातुमत्त्वाभ्युपगमात्तत्पर्यायपरित्यागेन पर्यायान्तरापत्तेरेव केवलमभ्युपगमाद् , अस्तु चौदारिकत्वावच्छिन्नं प्रत्येवाहारपुद्गलत्वेन हेतुता लाघवात्तथापि परमौदारिक कवलाहारापेक्षस्थितिकमेवेति सिद्धम् ॥११६॥अथ कवलाहारस्वीकारे केवलिनां तज्जन्यमतिज्ञानानुत्पत्तिं परिहरतिण य मइणाणपसत्ती कवलाहारेण होइ केवलिणो। पुप्फाईअंविसयं अण्णह घाणाइ गिण्हिज्जा ॥११७॥
न च मतिज्ञानप्रसक्तिः कवलाहारेण भवति केवलिनः । पुष्पादिकं विषयं अन्यथा घ्राणादि गृह्णीयात् ॥ ११७ ॥ न खलु कवलाहारमात्रेण भगवतां रसनेन्द्रियजन्यज्ञानोत्पत्तिप्रसङ्गः, विषयसत्त्वेपि मतिज्ञानावरणक्षयोपशम|रूपतत्कारणीभूतलब्धीन्द्रियाभावात्। अन्यथा सभाभूमौ सुरविकीर्ण बहलकुसुमपरिमलादपि घ्राणेन्द्रियोद्भवमति
0000000000000000000000
Jain Education
a
l
For Private & Personel Use Only
jainelibrary.org