________________
8000000000000000000
परमोरालिअदेहो केवलिणं नणु हवेज मोहखए । रुहिराइधाउरहिओ तेअमओ अब्भपडलं व॥११३॥
परमौदारिकदेहः केवलिनां ननु भवेन्मोहक्षये । रुधिरादिधातुरहितो तेजोमयोऽभ्रपटलमिव ॥ ११३ ॥ 2 कवलाहारो हि धातूपचयाद्याधायकतयौदारिकशरीरस्थितिवृद्ध्योः प्रभवतु, न तु वैक्रियादेरिव रुधिरादिधातुर
हितस्य परमौदारिकस्य स्थितौ तदपेक्षास्ति, प्रत्युत मूत्रपुरीषादिमलाधायिनस्तस्य सत्त्वे परमौदारिकमेव न भवेकादिति अत्रोच्यतेसंघयणणामपगई केवलिदेहस्स धाउरहिअत्ते । पोग्गलविवागिणी कह अतारिसे पोग्गले होउ ॥११॥
संहनननामप्रकृतिः केवलिदेहस्य धातुरहितत्वे । पुद्गलविपाकिनी कथमतादृशे पुद्गले भवतु ॥ ११४ ॥ केवलिनां शरीरस्य सप्तधातुरहितत्वे हि अस्थिरहितत्वमप्यावश्यक, तथाच तेषां वज्रर्षभनाराचसंहननप्रकृतिविपाकोदयः कथं स्यात् ?, पुद्गलविपाकिन्यास्तस्या अस्थिपुद्गलेष्वेव विपाकदर्शनात् ; “ संहयणमद्विणिचउत्ति" वचनात्, अथास्थिपुद्गलेषु दृढतररचनाविशेष एव तत्प्रकृतिजन्य इति नियमो नतु तेष्वेवेतिचेन्न, दृढावयवशरीराणां देवानामपि तत्प्रसङ्गात्, पूर्वमस्थिपर्यायपरिणतानां परमौदारिकावयवानां न संस्थानत्वव्यभिचार इति चेन्न, कदाचित्तत्पर्यायपरिणतेषु पुद्गलान्तरेष्वपि तत्प्रसङ्गात् ॥११४॥ अपि च मोहक्षयात्तत्कार्यरागद्वेषविलयाद् ज्ञानोत्पत्ति-1 रस्तु, औदारिकशरीरातिशयस्तु नामकर्मातिशयादेवेत्यनुशास्ति
000000000000000000000
११ Join Education
For Private & Personel Use Only
adjainelibrary.org