________________
अध्यात्मक
परीक्षा वृ०
@
॥६
॥
@
@
@
@
@
0000000000000000000000
वान्न चानौचित्येन प्रवर्तन्ते भगवन्तो न चास्मदादिवद्विशिष्टतपोऽप्युचितमिति तेषां तत्प्रसङ्गोऽस्मदादिसाधारणव्यवहाराप्रतिपन्थित्वरूपौचित्यात् केवलिव्यवहारात् प्रतिपन्थित्वरूपौचित्यस्य भिन्नत्वात् , अथ मासादिरूपे तपःकालेऽपि क्षुधादिरूपदःखोदीरणप्रसङ्ग इति चेन्न, प्रतिकूलवेदनादिरूपप्रमादेनैव तदुदीरणादन्यथाऽप्रमत्ता अपि तपस्विनस्तदुदीरयेयुस्तथापि तावत्कालोपहृतदुःखं सोढारो जिनाः सर्वदैव कुतो न तत्सहन्तेऽनन्तवीर्याणां तत्तितिक्षाक्षमत्वादिति चेन्न, दीर्घकालमशनपरिहारे औदारिकशरीरस्थितिविलयप्रसङ्गेन तीर्थप्रवृत्त्याधुच्छेदप्रसङ्गात् , सर्वदा दुःखसहनस्य तद्व्यवहारबाह्यत्वादू ॥१११॥ इदमेव व्यनक्तिओरालिअदेहस्स य ठिई अ वुड्डी य णो विणाहारं । तेणावि य केवलिणो कवलाहारित्तणं जुत्तं ॥११२॥
____ औदारिकदेहस्य च स्थितिश्च वृद्धिश्च नो विनाहारम् । तेनापि च केवलिनः कवलाहारित्वं युक्तम् ॥ ११२ ॥ __ औदारिकशरीरस्थितिः खल्वाहारकर्मण इवाहारपुद्गलानामप्यन्वयव्यतिरेकावनुविधत्ते. तथा च कवलाहाराभावे केवलिनां शरीरं कथमुत्कर्षतः पूर्वकोटिकालमवतिष्ठताम् ? एवमौदारिकशरीरवृद्धिरप्याहारपुद्गलैरेव पुद्गलोपचय इति वचनाजलसेकासेकाभ्यां लतादीनां वृद्ध्यवृद्धिदर्शनाच्च, एवं च कवलाभोजित्वे केवलिनः पूर्वकोट्यायुषो नवमवर्षोत्पन्नकेवलज्ञानस्याकालं बाललीलाविलासप्रसङ्ग इति महदनुचितमेतत् ॥११२॥ ननु सर्वमिदं भगवतां पूर्वावस्थानतिशयितौदारिकदेहाभ्युपगमे दूषणमापतेत, नतु परमौदारिकाभ्युपगम इति शङ्कते
@
@
@
@
॥६०॥
@
@
@
Jain Education
na
For Private & Personel Use Only
Id
jainelibrary.org