________________
000000000000000000000
दनन्तवीर्यस्यापि भगवतः शरीरबलापचयोपदेशाद्भवेदेवाशक्यपरीहारोऽन्यथा शक्यपरिहारप्राप्तं वस्त्रादिकमपि परिहत्य दिगम्बरा एव केवलिनो भवेयुरित्यहो असिताम्बरार्भकस्य वचनचातुरी, पात्रादिसत्त्वे केवलिनां तत्प्रतिलेखनादिप्रसङ्ग इति चेन्न संसक्तिकाले इष्टत्वात् “ सबत्थवि संसत्ता पडिलेहा होइ केवलीणं तु । संसत्तमसंसत्ता छउमत्थाणं तु पडिलेहा” इति विभज्योपदेशात् ॥११०॥ अथाहारेण भगवतां ध्यानतपोव्याघात इत्याशङ्कापत परिमार्टिझाणतवोवाघाओ आहारेणंति ते मई मिच्छा । झाणं सेलेसीए तवो अ ण विसिस्सते सिंति॥११॥
ध्यानतपोव्याघात आहारेणेति ते मतिर्मिथ्या । ध्यानं 'शैलेइयां तपश्च न विशिष्यते एषामिति ॥ १११ ॥ | केवलिनो हि शैलेश्यवस्थायामेव ध्यानमारभन्ते, तत्र च कवलाहारानभ्युपगमान्न तेन तत्प्रतिबन्धो, यदि च स्वभावसमवस्थानमेवात्मनो ध्यानमिष्यते शश्वदेव तथापि न तेन तत्प्रतिबन्धो बहिष्क्रियाया अन्तर्भावाप्रतिबन्धकत्वाद्योगनिश्चलतारूपध्यान एव योगचञ्चलताधायकबहिष्क्रियायाः प्रतिबन्धकत्वात् , उक्तं च रत्नाकरावतारिकायां "न द्वितीयः | केवलिनःशैलेशीकरणप्रारम्भात्प्राक् ध्यानानभ्युपगमात्,तत्रकवलाहारास्वीकारात्तद्ध्यानस्य शाश्वतत्वादन्यथा गच्छतोऽ|पि कथं नैतद्विघ्नः स्यादिति"मदुक्तव्याख्यापद्धत्यैव सुघटमेतत् , तपोऽपि च न तेषां विशेषतः संभवति, तादृशनिर्जरणीयकमाभावात् “ अणुत्तरे तवे" इति सूत्रं तु शैलेश्यवस्थाभाविध्यानरूपस्याभ्यन्तरतपसः पारम्यमावेदयति, तथैव स्थानाङ्गवृत्तौ व्याख्यानात् । यदपि शरीरव्युच्छित्तये पार्यन्तिकसंलेखनादिकं तपस्तदपि कादाचित्कमिति न तेन तत्प्रतिबन्धो, नच तपोऽकालेपि क्षुदादिकारणे कुतः केवलिनोन भुञ्जत इति वाच्यम् , तदानी भोजने कर्मबन्धाभावेऽप्युचितप्रवृत्तेरभा
00000000000000000
Jain Education
a
l
For Private & Personel Use Only
ainelibrary.org