SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 30000000000000000000000004 का हेऊ पमत्तयाए आहारकहेव णेव आहारो । होज जईणइआरो अण्णह तीए व तेणावि ॥ १०६ ॥18 हेतुः प्रमत्तताया आहारकथैव नैवाहारः । भवेद् यतीनामतिचारोऽन्यथा तयेव तेनापि ॥ १०६ ॥ का न खलु यत्कथा प्रमादजननी तदपि प्रमादजनकमिति व्याप्तिरस्ति मानाभावादन्यथा देशकथायाः प्रमादहेतुत्वेन देशे निवसन्तो यतयः प्रमादिन एव प्रसजेयुः । अथ तादृगभिष्वङ्गजननानुकूलतत्तद्देशगुणवर्णनात्मकैव देशकथा तथा, नतूदासीनो देशोपि, हन्तवमाहारकथाप्याहारविषयाभिलाषजनकतयैव तथानत्वनीदृश आहारोपीति किमिति नचेतयसे ? नचेदेवं ताहारकथया यतीनामतिचारो नत्वाहारेणेति कुतो वैषम्यम् ? । तस्माच्चारित्रपालनार्थतया निरभिष्व परिणामेन गृह्यमाण आहारो न प्रमादहेतुराहारकथा तु सरागपरिणामेनैव क्रियमाणत्वात् प्रमादहेतुरित्यवश्यं प्रतिपत्तव्यम् । न च राग विनैवाहार इवाहारकथापि किं नेति पर्यनुयोज्यं ! विना प्रयोजनं तदभावान्न चावितथाहारकथापि तथापि तु तद्विकथेति तत्त्वम् ॥१०६॥ अथ निद्राजनकतयाहारस्य प्रमादहेतुत्वमिति निराकर्तुमाहणिदाएविण हेऊ भत्ती सहयारमेत्तओतीसे । जेण सुए णिदिहा पयडीसा दंसणावरणी॥ १०७॥ निद्राया अपि न हेतुर्भुक्तिः सहचारमात्रात्तस्याः । येन श्रुते निर्दिष्टा प्रकृतिः सा दर्शनावरणी ॥ १० ॥ न खलु क्वचन भुक्तिनिद्रयोः पौर्वापर्यं दृष्टमिति तां प्रति तस्या हेतुत्वमेव कल्पयितुमुचितम् , अन्यथा क्वचिद्रासभादेरपिघटपूर्वभावदर्शनेन तं प्रति तस्यापि हेतुत्वप्रसङ्गात्तस्माद्दर्शनावरणप्रकृतिरूपा निद्रैवेन्द्रियवृत्तिनिरोधरूपनिद्रा 300000000000000000000000006 Jain Education For Private & Personal Use Only (Aaw.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy