SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ परीक्षा वृ. अध्यात्मायोर्भेद इति कथं निरभिष्वङ्गाणां भुक्तिमात्रादेव प्रमादः? न खलु शुभयोगमुदीरयन्तःप्रमत्तगुणस्थानवर्तिनोऽपि दुष्प्र- युञ्जते किंपुनर्वीतरागा इति; न चैवं शुभयोगोदीरणदशायां योगदुष्प्रणिधानरूपप्रमत्तत्वहानिप्रसङ्गः, योगदुष्प्रणिधान॥५७॥ लिङ्गकान्तर्मुहूर्त्तकपरिणामविशेषस्यैव प्रमत्तगुणस्थानपदप्रवृत्तिनिमित्तत्वात् । प्रमत्तानां शुभाशुभयोगव्यवस्थाऽसिद्धेति पुनरसैद्धान्तिकमलपितम् । “तत्थणं जे ते पमत्तसंजया ते सुहं जोगं पडुच्च णोआयारंभा जाव अणारंभा, असुहं जोगं पडुच्च आयारंभावि जाव णोअणारंभत्ति" प्रज्ञप्तौ प्रज्ञप्तत्वान्ननु तथापि माऽस्तु कवलाहारेण योगदुष्प्रणिधानं परन्तु शुभयोगरूपस्यापि तस्यावश्यकादिव्यापाराणामिवास्तु प्रमत्तगुणस्थानमात्रविश्रान्तत्वमितिचेच्छद्मस्थानामारम्भं प्रत्यनुमतमेतनतु निष्ठां प्रति, अत एव कौण्डिन्यादयः क्षपकश्रेणी प्रतिपद्यमानाः सप्तमादिगुणस्थानस्पर्शनां कारङ्कारमेवारब्धं कवलाहारं परिनिष्ठितवन्तो, न च तत्परिनिष्ठया तेषां दुष्प्रणिधानं सुप्रणिधानस्य बलवत्त्वान्ननु तथापि सप्तमादिकगुणस्थान इव त्रयोदशगुणस्थानेप्यारब्धकवलाहारः परिनिष्ठीयतां, नतु पुनः प्रारभ्यतामविशेषादिति चेन्न, सप्तमादिगुणस्थानानां ध्यानप्रधानानां पूर्वप्रवृत्तव्यापारमात्रावधानव्यग्रत्वेन व्यापारान्तरारम्भे ध्यानधाराविच्छेदप्रसङ्गादन्यत्र च तदभावादेतेन स्वल्पकालत्वेन सप्तमगुणस्थाने भोजनाभावे षष्ठगुणस्थानेऽपि तदापत्तिरित्यपास्तम् । स्यादेतत् बाह्यव्या पारनिवृत्तावेवाध्यात्मध्यानधवलसप्तमादिगुणस्थानलाभ इति कथं भोजनाद्यन्तरैवं क्षपकश्रेणीसंभव इति; मैवं शुभयोगप्रवृत्त्याहितकायिकध्यानस्य तदप्रतिपन्थित्वात् प्रत्युत तदनुगुणत्वादन्तरा सूक्ष्मात्मलयसम्भवात् ॥१०५॥ अथाहारकथा चेत् प्रमादजननी ताहारः सुतरां तजनक इति प्रभाचन्द्रवचो मुद्रयितुमाह 000000000000टी0टीम 000000000000000000000000 ॥५७॥ 0000 Jain Educationa lisa For Private & Personal Use Only Mainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy