________________
Jain Education
| खेदोदीरणापादनमभिप्रेतमिति चेन्न वाक्प्रयोगस्य रागयोग दुष्प्रणिधानादिरूपप्रमादाव्याप्यत्वाद्वीतरागप्रवृत्तेर्व्युत्पादितत्वात् ॥ १०२ ॥ अथैवं भगवतां वाकूप्रयोगात् कथंचित् खेदोत्पत्तावपि तदनुदीरणोकेर्भुक्त्यापि क्षुन्निवृत्तिजन्यसुखोत्पत्तावपि तदनुदीरणसूचनक्षमायाः फलमाह -
भुत्तीइ सुदुप्पत्ती तं पुण जोगादुदीरियं होजा । एसा परजुत्तिलया एएण पकंपिया या ॥ १०३ ॥ भुक्त्या सुखोत्पत्तिस्तत्पुनर्योगादुदीरितं भवेत् । एषा परयुक्तिलता एतेन प्रकम्पिता ज्ञेया ॥ १०३ ॥
स्पष्टा ॥१०३॥ ननु भुक्तिव्यापारेण दुष्प्रणिहिता योगाः प्रमादरूपतामास्कन्दन्तः कथमिव न वेदनीयमुदीरयेयुरत एव न तदनुदीरकाणां सप्तमगुणस्थानवर्त्तिनामपि कवलाहारक्रीडाव्रीडावगुण्ठनमिति कुतस्तरामुत्तरोत्तरगुणस्थानप्रणयिनां तदित्याशङ्कायामाह -
दु
दुपणिहापि केवलिजोगाण होइ भुत्तीए । तं रागद्दोसकयं ते पुण तेसिं विलीणेति ॥१०४॥ नच दुष्प्रणिधानमपि केवलियोगानां भवन्ति भुक्त्या । तद्रागद्वेषकृतं तौ पुनस्तेषां विलीनाविति ॥ १०४ ॥ | इय सत्तमाइ फासगकोडिन्नाईण कवलभोईणं । णेव य दुप्पणिहाणं सुप्पणिहाणस्स माहप्पा ॥१०५॥ इति सप्तमादिस्पर्शककौण्डिन्यादीनां कवलभोजिनाम् । नैव च दुष्प्रणिधानं सुप्रणिधानस्य माहात्म्यात् ।। १०५ ॥ न खलु कवलाहारव्यापारमात्रेण योगानां दुष्प्रणिधानमपि तु तदभिष्वङ्गपरिणामेनात एव दुष्प्रणिधानदुष्प्रयुक्त
For Private & Personal Use Only
jainelibrary.org