________________
अध्यात्म
॥५६॥
100000000000000000000000
भाव्यमितिचेन्ननमेवं सौगतमतावलम्बिनो भवतस्तावत्कालं तत्तदवस्थितेरपि स्वभावादेवोपपत्तौ किमायःकर्मचर्यया?
परीक्षा वृ० किंच स्वभाववैलक्षण्यमेवास्य कुतो, न चायं प्रयोजनप्रश्नो हेतुप्रश्नो वा! नाद्यः, प्रयोजनभेदव्यवस्थितेः प्रसिद्धत्वान्न द्वितीयः स्वभावस्याकार्यत्वादितिवाच्यं, प्रमाणप्रश्नस्वादस्य, न च विना कार्यकारणभावं तथास्वाभाव्यग्राहक प्रमाण-I मस्ति अन्यथा दण्डे घटजनकत्वमगृहीत्वापि दण्डादेव घटो भवतीति स्वाभाव्यग्रहप्रसङ्गाजलं शीतमित्यादावपि शीतसमवायस्वभाव एव कारणत्वग्रहाधीनग्रहो नतु जलस्यैव शैत्यमिति स्वभाव इति । अथ कार्यकारणभावग्राहकादेव तथास्वाभाव्यग्रहोऽस्तु किमन्तरा कार्यकारणभावग्रहेणेतिचेत्सत्यं, नियतपूर्वावधिमत्त्वस्वभावस्यैव कारणत्वादित्यन्यत्र विस्तरः । तस्मादपवर्त्तनावदुदीरणाकरणमपि वीर्यजन्यमेवेति व्यवस्थितमेवं च तन्मात्राहुःखोदीरणप्रसङ्गे सुखोदीर-16 णप्रसङ्गोऽपि भगवतां दुर्निवारः॥१०१॥अथ प्रमादरूपहेत्वन्तराभावान्न यत्किश्चित्कारणमात्रात् सुखोदीरणमितिचेत्तर्हि तत एव न वागनिर्गमाहुःखोदीरणमपि, सातासातमनुजायुषां हि प्रमादसहितेनैव योगेनोदीरणमिति वचनादित्याशयवानाहखेओ णोईरिजइ केवलिजोगेहि तो विणु पमायं । तुल्लुदयउपभवो दीसइ पुण सोवि तत्तुल्लो ॥१०॥
खेदो नोदीर्यते केवलियोगैस्तद्विना प्रमादम् । तुल्योदयहेतुप्रभवो दृश्यते पुनः सोऽपि तत्तुल्यः ॥ १०२ ॥ केवलिनां योगाः खलूदीरणां प्रति सामान्यहेतुभवन्तोऽपि प्रमावघटितविशेषसामग्री विनान खेदमुदीरयितुं प्रभवेयुः। यस्तु खेदविनोदो भगवतोऽपि भवतीत्यादिना वाग्निर्गमजन्यः खेदो भगवतां प्रतिपाद्यते । स तु वस्तुत उदयार्जितोऽपि तुल्यहेतुबललब्धजन्मतयोदीरित इव लक्ष्यते नतु परमार्थतस्तथाविध इति । अथ वाक्प्रयोगेण प्रमादमापाद्यैव ततः
000000000000000000000
lain Educatio
n
al
For Private & Personel Use Only
law.jainelibrary.org