________________
Jain Education
G)
डज्झइ कालेण पुंजिया खिष्पं । वियओ पडो व सुस्सइ पिंडीभूओ अ कालेणं । ४ । भागो व णिरपवत्तण हीरइ कमसो जहण्णहा खिष्पं । किरियाविसेसओ वा समे वि रोगे तिगिच्छाए | ५|” यथाह्यानादिफलं वृक्षस्थं यावता कालेन पच्यते तदवगेव गर्त्ताप्रक्षेपपलालस्थगनाद्युपायेन पाच्यते, तथा दीर्घस्थितिकतया बद्धं कर्माप्यध्यवसानादिभिरर्वागेव पाच्यतेऽथवा यथा तुल्येsपि पथि त्रयाणां पुरुषाणां प्रहरैक द्वित्र्यादिलक्षणो गतिविशेषाद्भिन्नः कालो दृश्यते एवं तुल्यस्थितिकस्यापि कर्मणस्तीत्रमन्दमध्यमाध्यवसाय विशेषाज्जघन्य मध्यमोत्कृष्टलक्षणस्त्रिविधोऽनुभवकालो भवति, यथा वा तुल्येपि शास्त्रेऽध्येतॄणां मतिभेदात् कालभेदस्तथात्रापि "तहत्तियोजनगाथा" स्पष्टा नवरं परिणामा अध्यवसानादयः, क्रिया च चारित्रादिलक्षणेति, यथा वा दीर्घा रज्जुश्चिरेण दह्यते पुञ्जीकृता तु क्षिप्रं तथा कर्मापि, यथा वा जलार्द्रा विततीकृतः पटः क्षिप्रं शुष्यति पिण्डीभूतस्तु चिरेण तथा कर्मापि । यथा वा लक्षप्रमाणस्य दशभिर्भागो हरणीयः स च यद्यपवर्त्तनां विनैव हियेत तदा महान् भागहारकालः स्यादपवर्त्तनायां तु नैवं, लक्षस्य हि पञ्चभिर्भागहारे विंशतिसहस्राणि लभ्येरन् दशानां तु द्वौ, ताभ्यां च विंशतिसाहस्रिकस्य लघुराशेर्भागे हृते झटित्येव दश सहस्राण्यागच्छेयुरिति, एवमायुषोप्यनपवर्त्तितस्य दीर्घः कालोऽपवर्त्तितस्य लघुरिति । यथा वा समेपि कुष्ठादिके रोगे क्रियाविशेषाच्चिकित्सायाः कालभेदस्तथेति भाष्याम्भोधिसंप्लवपरिचितः पन्थाः । अथांशतः प्रतिक्षणं विनश्वरस्वभावमायुः कदाचित् स्वभावादेव कात्स्र्त्स्न्येन क्षीयत इति कोऽयं सोपक्रमनिरुपक्रमविभाग इतिचेद्धन्त तर्हि कारणानपेक्षायामंशतः क्षयसमय एव कुतो न कात्स्म्र्त्स्न्येन क्षयस्तदपेक्षायां तु कथं न भोगः तदितरकारणवैलक्षण्यादुक्तविभागा (गव्य) वस्था, तावत्कालमंशतः क्षयमासाद्यैवायुषः कात्स्न्र्त्स्न्येन क्षयस्वा
For Private & Personal Use Only
www.jainelibrary.org