________________
OOOOOOOOOOOOOOOOOO
कारणेन सहकारितयापेक्षणादितिपरमार्थः । यथाबद्धस्यैव पुनः कर्मणो वेदने मोक्षाभावप्रसङ्गस्तद्भवसिद्धिकस्यापि सत्तायामसंख्येयभवार्जितकमणः सद्भावात्तस्य च नानाध्यवसायबद्धत्वेन नरकादिनानागतिकारणत्वात्तस्य च विपाकत एवानुभवने एकस्मिन्नपि चरमभवे विरुद्धनानाभवानुभवप्रसङ्गात् क्रमशस्तदनुभवे पुनः संसारसन्ततिबन्धावश्यकत्वात् यदाह-" जइ वाणुभूइओ च्चिय खविज्जए कम्ममन्नहा न मयं । तेणासंखभवज्जियनाणागइकारणत्तणओ।शनाणाभवाणुभवणाभावादे कम्मि पज्जएणं वा।अणुभवओ बंधाओ मोक्खाभावो स चाणिहोत्ति" स्यादेतदेकत्र भवे नानाभवा
नुभवो न विरुद्धस्तत्त्वज्ञानबलाहितकायव्यूहस्य योगिन एकदापि शूकरादिनानाशरीरावच्छेदेन शूकरादिशरीरोपभोग्यलास्यानुभवसंभवाद्विभिन्नावच्छेदेन सजातीयात्मगुणानां यौगपद्यस्वीकारात् कथमन्यथा युगपद्विंशत्यङ्गुलीचालनानुकू-16 लप्रयत्नोपपत्तिर्नच मिथ्याज्ञानवासनाभावाद् योगिनः परदारगमनादिनाऽदृष्टोसत्तिरिति, मैवं, मनुष्यशरीरस्य मनुष्येतरशरीरविरोधित्वादन्यथा स्वर्गजनकादृष्टवतो यज्वनस्तदानीमेव स्वर्गिशरीरोपग्रहप्रसङ्गात् , तददृष्टस्य तदानीमलब्धवृत्तिकत्वान्नैवमिति चेत्तर्हि तत्त्वज्ञानिनो नानाविधादृष्टानां कथं युगपत्तिलाभः, कारणसाम्राज्यात् युगपद्धृत्तिलाभोऽपि नानुपपन्न इति चेन्ननु तथापि तत्त्वज्ञानादेव तावददृष्टानां युगपत्तिलाभ इति देवानांप्रियस्याभिमतं तदेव च कथं तत्प्रतिबन्धकादृष्टक्षयं विना, नच तत्क्षयोऽपि भोगादेव, तत्त्वज्ञभोगस्य तदर्जकत्वादपि चाध्यवसायविशेषादेव विचित्रा
दृष्टक्षयोपपत्तौ कायव्यूहादिकल्पनमप्रामाणिकमिति दिगू। ननु दीर्घस्थितिकं कर्म बद्धं वेद्यते पुनरल्पस्थितिकमिति कथं कानाकृतागमादयः, नचोपक्रान्तस्यानुभवान्न दोषस्तथापि बन्धाननुरूपत्वाद्भोगस्येति चेन्न, साध्यरोगवदुपक्रमणीयस्वभाव
CGOOGROCEROOOOOடுடுடுடுடுடு
Jain Education
For Private
Personel Use Only
Jainelibrary.org