________________
पुद्गलानामध्यवसायविशेषेण तत्कालमेवाहरणादिति गृहाण, सेयं कर्मणामपवर्तनाऽनिकाचितानामेव भवति तीव्रण। जातपसा पुनर्निकाचितानामपीति स्थितिः यदाह भाष्यकार:-" सबपगईणमेवं परिणामवसादुवकमो होजा। पायमनि-15
काइआणं तवसा उ निकाइआणंपित्ति ।” ननु निकाचितं नाम भोगं विना क्षपणायोग्यं तस्य कथं तपसा क्षय इति चेन्नोपशमनादिकारणान्तराविषयस्यैव नितरां बद्धस्य निकाचितार्थत्वात्तादृशस्य च कर्मणो दृढतरप्रायश्चित्तपरिशीलनोदिताध्यवसायातिरेकप्रसूतैकश्रेण्यारोहौपयिकापूर्वकरणगुणस्थानजनितापूर्वाध्यवसायैः स्थितिघातादिभिरेव परिक्षयसंभव इति तदुक्तं प्रायश्चित्तविधिपञ्चाशके "एएण पगारेणं संवेगाइसयजोगओ चेव । अहिगयविसिट्ठभावो तहा तहा होइ णियमेणं ॥१॥ तत्तो तबिगमो खलु अणुबंधावणयणं व होजाहि । जइय अपुवकरणं जायइ सेढीय विहियफला ॥२॥
एवं निकाइआणवि कम्माणं भणियमेत्य खवणंति। तपि य जुज्जइ एयं तु भावियवं अओ एयंति॥३॥" अत्रैवमनेनैव न्यायेकानापूर्वकरणश्रेणिजननरूपेण निकाचितानामप्युपशमनादिकरणान्तराविषयत्वेन नितरां बद्धानामप्यास्तामनिकाचितानां का
कर्मणां ज्ञानावरणादीनां भणितमुक्तमागमे “ तवसा उ निकाइआणंपीति " वचनादत्र प्रायश्चित्तरूपशुभभावे क्षपणं सर्वथा क्षयो भवति, अनिकाचितक्षपणं तु निर्विचारमित्यपि चशब्दार्थः युज्यते सङ्गच्छते, ततश्चैवं तु एवमेव कर्मबन्धकर्मानुबन्धापनयनहेतुत्वेनैव भावनीय पर्यालोचनीयमतो निकाचितकर्मबन्धक्षपणहेतुत्वाच्छुभभावरूपं प्रायश्चित्तमितिव्याख्यानादुन्नीयते यत्तादृशाध्यवसायद्वारा तीव्रतपसो निकाचितकर्मक्षयहेतुत्वमिति नातस्तदृतेप्यपूर्वकरणे संभवाव्यभिचारो न वा तद्धेतुत्वप्रतिपादकागमविरोध इति बोध्यम् । नन्वेवमिदानीन्तनप्रायश्चित्तानामपूर्वकरणमकुर्वतां|
पण पगारेणं सवस्थानजनितापाइशस्य चलायोग्यं तर
000000000000000000000000
0000000000000000000000
HainEducation
For Private Personal use only