________________
GOGOOGGGGGGGGGGGGGGG
नहि कर्मोदीरणं वीर्य विना प्रवर्तते करणत्वादपवर्तनावत् , अथापवर्तनमप्यपवर्तनीयकर्मणस्तथास्वाभाव्यादेवेति चेत्किं तर्हि तत्स्वभावकर्महेतुरेव तदपवर्तनहेतुरुत स्वहेतूचिततत्कर्मणोऽपवर्त्तनं स्वभावादेव ! नाद्यः उत्पत्तिसमनन्तरमेव तदपवर्तनप्रसङ्गात्, न द्वितीयः कारणं विना कार्योत्पत्तिप्रसङ्गादथ किमिदमपवर्त्तनं नाम, नूनं ध्वंस एव सः, केवलं प्रायश्चित्ताद्यभावे भोगादेव तन्नाशोऽन्यथा तु प्रायश्चित्तादिनैवेत्येव विशेषः, नच दीर्घस्थितिकस्य इस्वस्थितिकापादनमपवर्त्तनं नाम, कालसंबन्धरूपायाः स्थितेरनपवर्तनीयत्वादितिचेन्नः प्रायश्चित्तादिना कर्मणः स्थितेरेव नाशाद् भस्मकेनेव बहुकालभोग्यधान्यस्थितेः, कर्मणः पुनरन्ततो धान्यराशेरिव प्रदेशानुभवरूपोऽपि भोग आवश्यक एवात एव न कृतनाशाऽकृतागमादिप्रसङ्गो यदाह भाष्यकार: “कम्मोवक्कामिजइ अपत्तकालंपि जइ तओ पत्ता । अकयागमकयनासा मोक्खाणासासणादोसा॥शाण हि दीहकालिअस्सविणासो तस्साणुभूइओ खिप्पं । बहुकालाहारस्स व दुयमग्गिअरोगिणो भोगोत्ति ॥२॥" अथाहारस्य भोगो भक्षणादिक, कर्मणस्तु स्वजन्यसुखदुःखान्यतरसाक्षात्कार इत्यस्ति विशेष इतिचेन्न, कर्मद्रव्यस्येव नोकर्मद्रव्यस्याप्यात्मसात्परिणामस्यैव प्रदेशभोगत्वात्, सुखदुःखयोस्तु विपाकफलत्वादत एव धान्यप्रदेशा इव कर्मप्रदेशा अपि भुक्ता एव सन्तो धान्यपरिणाममिव कर्मपरिणामं त्यजन्तःक्षीणा इति भण्यन्ते। रसस्तु कर्मणामध्यवसायविशेषेण हन्यत एव भस्मकजनितजाठरानलोद्भुतस्पर्श एव भुज्यमानरस इवात एव न प्रसन्न चन्द्रादीनां सप्तमनरकयोग्यासातवेदनीयप्रदेशानुभवेऽपि तथाविधदुःखप्रसङ्गोऽत एव च सर्वस्य कर्मणः प्रदेशतो भोगनियमोऽनुभागतस्तु तद्भजनैवेति भगवन्तोऽभ्यधुः । यदागमः-" तत्थ णं जं तं अणुभागकम्मं तं अत्थेगइअं वे-14
OOOOOOOOGSOOOOOOOOOOOO
JainEducationine
For Private
Personal Use Only