SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अध्यात्म० ॥ ५२ ॥ Jain Education | प्रमादापूर्वकत्वलक्षणौचित्यद्वयान्तर्भावेनोक्तकारणता द्वय कल्पनायाः प्रामाणिकत्वादस्तु वोचितप्रवृत्तित्वावच्छेदेनाप्र शस्तरागाद्यभावस्यैव हेतुत्वम् । नचानुचितप्रवृत्तित्वावच्छिन्नं प्रति प्रशस्तरागाद्यभावस्य हेतुतायां विनिगमनाविरहोsप्रमत्तप्रवृत्तौ व्यभिचारान्नचाप्रमत्तानां प्रवृत्तिरेव नास्तीति सांप्रतम्, योगदुष्प्रणिधानरूपप्रमादत्यागेऽपि तैस्तत्सुप्रणिधानात्यागात्, सर्वथा योगनिरोधस्य शैलेश्यवस्थाभावित्वादिति किमित्याम्रेडितविस्मरणशीलतायुष्मतः ॥ ९९ ॥ अथ वागूनिर्गमप्रयत्नाद्भगवतां खेदोदीरणप्रसङ्गमाशङ्कयाह णय वयणपयत्तेणं खेअस्सोदीरणं जिणिंदिस्स । इहरा सुहस्स पावइ तंण वा अण्णपयडीणं ॥ १०० ॥ नच वचनप्रयत्नेन खेदस्योदीरणं जिनेन्द्रस्य । इतरथा सुखस्य प्राप्नोति तन्नवेतरप्रकृतीनाम् ॥ १०० ।। वाक्प्रयत्नजन्यः खेदलेश इति यदि स उदीरित एव स्यात्तर्हि सुखमपि तेषां काययोगाद्युदीरणीयमेव प्रसज्येताथमोहाभावादप्रवृत्तिमतां भगवतां सुखमपि काययोगाद्यनपेक्षं क्षायिकमेवाभ्युपेम हति चेत्, हन्त तर्हि तीर्थकरनामकर्माॐ चुदीरणमपि तेषां न स्याद् । उदयावलिकातो बहिर्वर्त्तिनीनां स्थितीनां दलिकं कषाय सहितेनासहितेन वा योगसंज्ञिकेन वीर्यविशेषेणाकृष्योदयावलिकायां प्रक्षेपणमुदीरणेति हि तलक्षणमामनन्ति' न चैतद्विना प्रयत्नं संभवीति ॥ १००॥ अथोदयोचित कालपरिपाकात् प्रागेवोदयावलिकायां कर्मनयनं तथाविधस्थितिबन्धाधीन मुदीरणमिति व्यपदिश्यत इति चेदत्रोच्यतेणय तं विरियविरहियं जायइ अपवत्तणव करणंति । केवलसहावपक्खे सुगयस्स मयं अणुण्णायं ॥ १०१ ॥ न च तद्वीर्यविरहितं जायतेऽपवर्त्तनेव करणमिति । केवलस्वभावपक्षे सुगतस्य मतमनुज्ञातम् ॥ १०१ ॥ 90004 For Private & Personal Use Only 1003 परीक्षा वृ० ॥ ५२ ॥ Www.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy