SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Jain Education ङ्गत्रिवलीतरङ्गादिना पुद्गले विपाकदर्शनाद्रागद्वेषराहित्यलक्षणं तु कृतकृत्यत्वं भगवति निराबाधमेव, विनैव तौ भगवतः | परमहितोपदेशकत्वस्य योग्यानां च ततः प्रतिबोधस्य स्वभावादेव निर्वाहाद्यदाहु:- "जं च कयत्थस्सवि से अणुवगयपरावगारिसाभवं । परमहियदेसयत्तं भासयसाभवमिव रविणो ॥१॥ किंच कमलेसु राओ रविणो बोहेइ जेण सो ताई । कुमुएसु य से दोसो जंणवि बुज्झंति से ताई ॥ २॥ जंबोहमउलणाई सूरकरामरिसओ समाणा उ । कमलकुमुआण तो तं साभवं तस्स तेसिं च ॥३॥ जहवोलूगाईणं पगासधम्माविसेसदोसेणं । उइओवि तमोरूवो एवमभवाण जिणसूरो ॥४॥ सज्झं तिगिच्छमाणो रोगं रागी ण भण्णए विज्जो । मुणमाणो अ असज्यं सेहयंतो जह अदोसो ||५|| तह भवकम्मरोगं नासंतो रागवं न जिणविज्जो । ण य दोसी अभवासज्झकम्मरोगं णिसे हंत्ते॥ ६ ॥ मो तुम जो गंजोग्गे दलिए रूवं करेइ रूआरो। ण य रागद्दोसिल्लो तहेव जोग्गे विबोहंतोत्ति ॥ ७॥ इदमत्ररहस्यं किमिति भगवान् भाषत इति पृच्छतामिदमुत्तरं यत्किमयं हेतुप्रश्नः, प्रयोजनप्रश्नो वा ? नाद्यः क्षायिकत्वादेव तद्वीर्यस्य वाग्वर्गणादानस्य च स्वहेतुकाययोगादिलाभाधीनत्वात् । द्वितीये • पुनरुक्तमेव कर्मक्षपणं प्रयोजनमिति किमपरं अनुशासितुमवशिष्यतेः सति प्रयोजने तदिच्छापेक्षयैव प्रवृत्त्या भवितव्यमितिचेद्भवनशीलायां तस्यामिदमित्थमेव नत्वन्यत्रापि, नच भवन्त्यपि सा तदिच्छामपेक्षत एवाप्रमत्तप्रवृत्तेस्तदनपेक्षित्वात् सामायिकस्यैवोचितप्रवृत्तिहेतुत्वात्तदुक्तम् “समभावा सामइअं तणकंचणसत्तुमित्तविसओत्ति । णिरभिस्संगं चित्तं उचि यपवित्तिप्पहाणं च त्ति । ” नन्वेवमुचितप्रवृत्तावभिष्वङ्गाभावप्रशस्तरागयोः पृथक्कारणताद्वयकल्पने गौरवमन्यथा व्यभिचारो, मम तु तत्र प्रशस्तरागस्यैकस्यैव हेतुत्वमिति लाघवमितिचेन्नाऽप्रमत्तप्रवृत्त्यनुरोधेनाप्रशस्तरागद्वेषापूर्वकत्व For Private & Personal Use Only w.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy