________________
अध्यात्म
॥५१॥
00000000000000
एयं सहाववाणी कह जुत्ता जेण तेसि वयजोगो । हेऊ दवसुअस्सा पओअणं कम्मखवणा य ॥९९॥ परीक्षा वृ०
एवं स्वभाववाणी कथं युक्ता येन तेषां वाग्योगः । हेतुर्द्रव्यश्रुतस्य प्रयोजनं कर्मक्षपणा च।। ९९ ॥ श्रोतॄणां भावश्रुतकारणतया द्रव्यश्रुतत्वमास्कन्दन्ती वागयोगजन्या हि भगवद्भाषा कथमनक्षरमयी, नात्र हेत्वभावो बाधको भाषापर्याप्त्याहितवाग्योगादेर्जागरूकत्वान्न चाभिलाषजनकश्रुतज्ञानाभावो बाधकोऽभिलाषसमानाकाजरज्ञानमात्रस्यैवाभिलाषप्रयोजकत्वादत एवोक्तम् “केवलनाणेणत्थे जाउं जे तत्थ पन्नवणजोग्गे। ते भासइ तित्थयरो वय
जोगसुअंहवइ सेसं ति" अथ प्रज्ञापनीयानां गृहीतुर्ग्रहणयोग्यानामेव चार्थानां भाषणे किं नियामकमिति चेदमूढलक्षस्य भगवतस्तथास्वाभाव्यमेवेति गृहाणैतेन रागद्वेषरूपहेत्वभावोऽपि निरस्तः एतयोरनृतभाषायामेव हेतुत्वाद् । अथानृतभाषायां विप्रलिप्सेव सत्यभाषायामप्यनुजिघृक्षैव हेतुर्भविष्यतीतिचेन्न, अनुग्रहार्थिप्रवृत्तावेव तद्धेतुत्वादत एव “ ता| मुअइ नाणवुटि भविअजणविबोहणहाए” इत्यत्रार्थपदं प्रयोजनार्थक नत्विच्छार्थकमित्याहुः। ननु कृतकृत्यस्य भगवतः प्रयोजनमपि नास्तीतिचेन्नैकान्ततः कृतकृत्यत्वासिद्धेर्द्धर्मदेशनादिनैव तेनोदीर्णतीर्थङ्करनामकर्मणः क्षपणीयत्वाद्यदागमः "तं च कहं वेइज्जइ अगिलाइ धम्मदेसणाईहिं ति।" अत एवोक्तं भाष्यकृतापि “णेगंतेण कयत्थो जेणोदिन्नं जिणिदणाम से । तदवंझफलं तस्स य खवणोवाओयमेव जओत्ति” नचातीर्थकरकेवलिना देशनाद्यनुपपत्तिर्ज्ञान-12
५१॥ दानाभ्यासादिनिकाचितपुण्यप्रकृतिविशेषादेव तदुत्पत्तेरेतेन तीर्थकरनामकर्मणो जीवविपाकितया तत्रैव विपाकमदर्शनमुचितम् नतु कण्ठताल्वाद्यभिघातक्रमेण देशनादिना पुद्गलेपीति परास्तम् । जीवविपाकिनोऽपि क्रोधस्य भ्रूभ-10
FEEEEEEEEEEEGAGE
Jain Education
a
l
For Private & Personel Use Only
ejainelibrary.org