SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ सामान्य प्रतीच्छाया हेतुत्वमवधृतमितिचेच्चेष्टामात्र प्रत्यपि प्रवृत्तेर्हेतुत्वं किन्नावधृतम्, प्रयलजन्यतावच्छेदकं वैजात्यं न केवलिक्रियायामिति चेदिच्छाजन्यतावच्छेदकं वैजात्यमपि न तत्प्रयत्न इति तुल्यम् । अत एव विनैवेच्छां सुषुप्त्याद्यवस्थायां श्वासप्रश्वाससन्तानाद्यनुकूलो जीवयोनिप्रयत्नः, आभोगपूर्वकप्रयत्नं प्रतीच्छाया हेतुत्वमिति चेदाभोगपूर्वकक्रियांप्रत्यपि प्रयत्नहेतुत्वं कुतोन रोचये छानस्थिकाभोगपूर्वकत्वमादाय समाधानमप्युभयत्र तुल्यम् । अत एवेच्छा विनैव केवलज्ञानाभोगेन केवलिसमुद्घातादौ प्रवृत्तिर्यदागमः "नाऊण वेअणिजं अइबहुयं आउअंच थोवागं । कम्मं पडिलेहे वच्चंति जिणा समुग्घायं ।। तथा न किर समुग्घायगओ मणवयजोगप्पांजणं कुणइ।ओरालिअजोगं पुण जुंजइ पढमहमे समए । उभयवावाराउ तम्मीसं बीअछट्ठसत्तमए। तिचउत्थपंचमे कम्मयं तु तम्मत्तचेट्ठाओ।" यस्तु ब्रूते पुद्गलस्कन्धविशेषस्येव भगवतोऽपि लोकव्याप्तिः स्वभावत एवेति, स एवं प्रतिबोधनीयो यत्तत्कार्यानुकूलपरिणाम एव जीवस्य प्रयत्न इति । अत एव कर्मबन्धः प्रायोगिकोऽभ्रादिबन्धस्तु वैश्रसिक इति व्यवस्था ॥९८॥ यत्पुनरुक्तम् “परपरिणामो ऽवन्ध्यबन्धनिदानमिति" तन्न, तदुपहितमिथ्यात्वादिभिरेव बन्धसंभवे तदुपक्षयाद् । अत एव श्रोतृणां घटादिज्ञानस्य स्वेष्टसाधनता ज्ञानात्तत्र प्रयोक्तुरिच्छा, तत इष्टघटादिज्ञानसाधनतया घटादिपदे तत्साधनतया च कण्ठताल्वाकाभिघातादाविच्छा, ततः प्रवृत्त्यादिक्रमेण घटादिपदप्रयोग इत्येतादृशपरिपाट्याः केवलिनामभावान्न ते शब्दप्रयोक्कारः, किन्तु विनसात एव मूर्भो निरित्वरा ध्वनयःश्रोतृणां स्वस्वभाषात्वेन परिणमय्यार्थविशेष बोधयन्तीति प्रत्युक्तमित्याह 100000000000000000 0000000000000000000 Jain Education D onal For Private & Personel Use Only Www.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy