________________
अध्यात्म०॥
साक्षायिकीत्वेन परिभाषणात्तदुक्तम् “पुण्णफला अरहंता, तेर्सि किरिया पुणो हि ओदयिगी । मोहादीहिं विरहिदा, तम्हा-IIपरीक्षा
सा खाइगित्ति मदा " ॥९७॥ एवं प्राप्तेऽभिधीयतेबाजोगं विणावि किरिया सहावओजइ कहाण तह सोवि । तुल्लं किर वेचित्तं तह तुल्लमबुद्धिपुत्वत्तं ॥९८॥
योग विनापि क्रिया स्वभावतो यदि कथं न तथा सोऽपि । तुल्यं किल वैचित्र्य तथा तुल्यमबुद्धिपूर्वत्वम्॥ ९८ ॥ ___ कायप्रयत्नादिकं विनैव स्थाननिषद्यादिकं भगवतां स्वभावत एव भवेदित्यत्र स्वभावत इत्यस्य कोऽर्थः किं कारणमन्तरैव वादृष्टजातीयकारणमन्तरा वा! नाद्यः बौद्धमतप्रवेशात् । नच सामान्यतस्तन्निबन्धनयोग्यताभ्युपगमेपि तिष्ठासाद्यभावाद्देशकालविशेषनियमः स्वभावादेवेति वक्तुं युक्तम्, विना कारणक्रम देशकालक्रमानुविधायककार्यस्याकस्मिकस्वप्रसङ्गात् । अथ केवलिना यथा दृष्टं तथैव तद्भवतीति स्वभावार्थ इति चेन्नन्वेवं तत्तदुपादेयावच्छिन्नविशेष्यतया तत्तदुत्पत्त्यवच्छिन्नविशेष्यतया च केवलज्ञानेनैव कार्यमात्रस्य देशकालनियमोपपत्तौ तदतिरिक्तकारणमात्रोच्छेदप्रसङ्गः, एवंच घटार्थितया दण्डादावपि प्रवत्तिर्दुर्घटा स्याद् । अथ दण्डाद्यपेक्षयैव घटोत्पत्तेः केवलिना दर्शनात् तत्तत्र कारण| मितिचेत्तर्हि तस्य तदपेक्षायां सिद्धायां तथा ज्ञानविषयिता, तस्यां च सिद्धायां तदपेक्षेति परस्पराश्रयप्रसङ्गस्तस्मान्न ज्ञानविषयतान्तर्भावेन कारणतापि त्वन्वयव्यतिरेकाभ्यां, तथाज्ञानविषयतायाः स्वभावत्वं तु न वारयामो, नच स्वभाव एव कारणत्वमिति किमज्ञप्रलापनिरासप्रयासेनतेन यदा यत् क्षेत्रं स्प्रष्टव्यं तदा तत्स्पर्शनं स्वभावादेवेत्यपि व्याख्यातम् । नापि द्वितीयपक्षः सुन्दरो, दृष्टजातीयं प्रयत्न विना स्थानादेरिव दृष्टजातीयामिच्छां विनापि प्रयत्नसंभवात्, प्रय
00000000000000000000000
00000000000000000000000
Jain Education
nal
For Private
Personal use only
w.jainelibrary.org