________________
बंधो परपरिणामा सो पुण नाणा न वीयमोहाणं। जोगकयावि हु किरिया तो तेसिं होइ णिब्बीय॥९७॥
बन्धः परपरिणामात् स पुनर्ज्ञानान्न वीतमोहानाम् । योगकृतापि क्रिया तत्तेषां भवति निर्बीजा ॥ ९७ ।। | अथ परिणमनलक्षणा हि क्रिया बन्धस्य बीजं भवति। तदुक्तम् । “उदयगदा कम्मंसा जिणवरवसहेण णियदिणाभणिदा । तेसु हि सुहिदो रत्तो दुट्ठो वा बंधमणुहवदित्ति ॥१॥" सा च ज्ञानादेव केवलिनां न भवति मोहजन्यत्वात्तस्या अत एवोक्तम् "गेण्हदिणेवण मुंचदिण परंपरिणमदि केवली भगवं। पेच्छदि समंतदो सो जाणदि सवं णिरवसेसंति॥२॥" तस्मात् काययोगादेरपि ग्रहणमोचनादिक्रिया तेषां निर्बीजैव, नहि स्वेष्टसाधनताज्ञानं विना चिकीर्षा, तां विना च प्रवृत्तिः संभवति, नचेच्छायां सत्यां वीतमोहत्वं नाम।नन्वेवं स्थाननिषद्याविहारधर्मोपदेशादयोऽपि तिष्ठासाद्यभावात्तेषामुच्छिद्येरन् इति चेत्सत्यं, प्रयत्नमन्तरेण स्वभावादेव तेषां संभवोपदेशात्तदुक्तम् “ठाणणिसेज्जविहारा धम्मुवदेसो अणियदिणा तेसिं । अरहताणं काले मायाचारोव इत्थीणं ति।" यथाहि महिलानां प्रयत्नमन्तरेणापि तथाविधयोग्यतासद्भावात् स्वभावभूत एव मायोपगुण्ठनावगुण्ठितो व्यवहारः प्रवर्त्तते तथा हि केवलिनां प्रयत्नमन्तरेणापि तथाविधयोग्यतासद्भावात् स्थान आसनं विहरणं धर्मदेशना च स्वभावभूता एव प्रवर्त्तन्ते इत्यमरचन्द्रीयं व्याख्यानम् । नच प्रयत्नानपेक्षायां कालनियमाद्यनुपपत्तिरम्भोधराणां गमनावस्थानगर्जनवर्षणनियमवदुपपत्तेः नन्वेवं तेषां पुण्यविपाकोऽकिंचित्करः स्यादितिचेत् स्यादेवौदयिक्या अपि तक्रियायाः कार्याकार्यभूतयोर्बन्धमोक्षयोरकारणकारणत्वाभ्यां
पहचविण परंपावदिति ॥डकम् । “उदयगत
50000000000000000000
9000000000000000000000000
Jain Education
a
l
For Private & Personel Use Only
jainelibrary.org