SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ अध्यात्म० ॥ ४९ ॥ Jain Education 5600600 | मादुदासीनप्रवेशाप्रवेशाभ्यां विनिगमनाविरहप्रसङ्गाच्चाथ सर्वलब्धिसंपन्नानां भगवतां क्षुदादिप्रतिबन्धकलन्ध्यापि भवि परीक्षा वृ० | तव्यमितिचेन्नैतस्य श्रद्धामात्रश्रवणत्वाद्वस्तुतो वेदनीयकर्मक्षयजन्यलब्धेरेव तादृशत्वादिति दिग्॥९५॥ अथ क्षुदादेर्व© लापचायकत्वात् कथमनन्तवीर्याणां तत्संभव इत्याशङ्कयाह खिज्जइ बलं छुहाए णय तं जुज्जइ अणंतविरियाणं । इय वृत्तंपि ण सुत्तं बलविरियाणं जओ भेओ ॥९६॥ क्षीयते बलं क्षुधया नच तद्युज्यतेऽनन्तवीर्याणाम् । इदमुक्तमपि न सूक्तं बलवीर्ययोर्यतो भेदः ॥ ९६ ॥ बलं हि शारीरं वीर्य चान्तरः शक्तिविशेष इति प्रसिद्धम् । तत्र वीर्यान्तरायकर्मक्षयोद्भूतस्य वीर्यस्य ज्ञानस्येव स्वयं भुवनाभोगलक्षणाभ्यन्तरव्यापाररूपस्यानन्तत्वेपि भगवतां शारीरबलचयापचयौ भवत एव, तयोस्तथाविधपुद्गलचयापचॐ याधीनत्वादेतेन ज्ञानस्येव क्षायिक (स्य ) वीर्यस्याविकारत्वात् कथं तद्धानिवृद्धी इति परास्तम् । योगपरिणामरूपस्य बलस्य © शरीरनामकर्मपरिणतिविशेषरूपत्वेनाक्षायिकत्वात् । उक्तंच प्रज्ञापनावृत्तौ “स पुनर्योगः शरीर नामकर्मपरिणतिविशेष इति" कथमेतदित्थमिति चेद् योगनिरोधेन तन्निरोधात् लेश्यावद्योगो वीर्य, शक्तिरुत्साहः, पराक्रम, इति पयांयवचनाच्च । अथैवं शरीरनामकर्मक्षयात् क्षायिकं बलं स्यादितिचेत्स्यादेव प्रयत्ननिरोधात् । परमनिश्चलतारूपचारित्रापृथग्भूतमेव तदित्येके । क्षायिकचारित्रस्येव क्षायिकवीर्यस्यापि सादिसान्तत्वं बहिः परिणामित्वं चेति तु सिद्धान्तः ॥ ९६ ॥ ५) अथ योगजन्यापि क्रिया भगवतां न भवतीति शङ्कते ७०००० H For Private & Personal Use Only 11 88 11 jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy