SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अध्यात्म ॥४८॥ SOOானOOOOGSOOானாடு पेक्षप्रकृतीनां स्थितिघातेऽवश्यं रसघातादयोऽन्यथा पराघातनामकर्मोदयात् केवली पराहननाद्यपि कुर्यात परीक्षा पुण्यप्रकृतयस्तु विशुद्धिप्रकर्षात् पीनविपाकाः कृता इति तद्विपाकमावल्यमेव तत्रेति प्रमेयकमलमार्तण्डाभिप्रा-10 यमनुसृत्य केनचिदूचे' तदपि दुराग्रहपारवश्यविजृम्भितं रसघाताद्रसस्येव स्थितिघातात् स्थितेरप्युच्छेदप्रसङ्गात् । तथाविधस्थितौ च व्यवस्थितायां तथाविधरसः किं त्वत्पाणिपिधेयोऽथ क्षुजनको रसो हत एव भगवताकुलतामात्रं त्ववतिष्ठतामितिचेत्तदिदं निजवाङ्मात्रसिद्धम् । युक्त्या तु स्थितितुल्यतानुरोधेन क्षुज्जनकस्यैव तस्य सिद्धेः, पराघातोदयेन च स्वकार्य क्रियत एव, परहननादिकं तु बुभुक्षादिवन्मोहायत्तमिति कथं तं विना भवेत् । केचित्तु “ मस्तकसूचिविनाशात् , तालस्य यथा ध्रुवं भवति नाशः । तद्वत्कर्मविनाशोऽपि मोहनीये क्षयं नीत ॥१॥ इति" वाचकवचनमवलम्ब्य जिनकर्मणां हतवीर्यतया कार्याक्षमत्वं कल्पयन्तस्तद्वलेन क्षुत्तष्णादीनामप्यारम्भसंरम्भसमारम्भवदौपचारिकत्वमात्रमुद्भावयन्ति ते पुनरुक्तवृद्धवचनमनाद्रियमाणा दिगम्बरडिम्भा एव भवन्तः कमीन्तरविपाकवैचित्र्यमपि कथं सहन्ताम् । अपरे तूदीरणां विना प्रचुरपुद्गलोपनिपाताभावाद्भगवदसातवेदनीयस्य दग्धरजुस्थानिकत्वमूचुः तदूषितमाचार्यैरेवैवं सति सातवेदनीयस्यापि तथात्वप्रसङ्गात्, सम्यग्दृष्ट्याोकादशगुण-10 स्थानेषु गुणश्रेणिसद्भावात्तदधिकपुद्गलोपसंहारादधिकपीडाप्रसङ्गाच्च, तस्मादनुभागविशेषादेव फलविशेष इति ध्येयं । परे पुनः प्रबलपुण्योदयाभिभूतत्वमेव पापप्रकृतीनां दग्धरजुस्थानिकत्वमनुमन्यन्ते तदप्यसद्यतो बलवसजातीयसंवलनं ह्यभिभवो, बलवत्त्वं चात्र न स्वविपाकप्रतिपन्थ्यधिकतरविपाकत्वम्, चक्रवादीनामपि क्षुद्वे Jain Educational For Private Personel Use Only HSjainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy