________________
अध्यात्म
॥४८॥
SOOானOOOOGSOOானாடு
पेक्षप्रकृतीनां स्थितिघातेऽवश्यं रसघातादयोऽन्यथा पराघातनामकर्मोदयात् केवली पराहननाद्यपि कुर्यात परीक्षा पुण्यप्रकृतयस्तु विशुद्धिप्रकर्षात् पीनविपाकाः कृता इति तद्विपाकमावल्यमेव तत्रेति प्रमेयकमलमार्तण्डाभिप्रा-10 यमनुसृत्य केनचिदूचे' तदपि दुराग्रहपारवश्यविजृम्भितं रसघाताद्रसस्येव स्थितिघातात् स्थितेरप्युच्छेदप्रसङ्गात् । तथाविधस्थितौ च व्यवस्थितायां तथाविधरसः किं त्वत्पाणिपिधेयोऽथ क्षुजनको रसो हत एव भगवताकुलतामात्रं त्ववतिष्ठतामितिचेत्तदिदं निजवाङ्मात्रसिद्धम् । युक्त्या तु स्थितितुल्यतानुरोधेन क्षुज्जनकस्यैव तस्य सिद्धेः, पराघातोदयेन च स्वकार्य क्रियत एव, परहननादिकं तु बुभुक्षादिवन्मोहायत्तमिति कथं तं विना भवेत् । केचित्तु “ मस्तकसूचिविनाशात् , तालस्य यथा ध्रुवं भवति नाशः । तद्वत्कर्मविनाशोऽपि मोहनीये क्षयं नीत ॥१॥ इति" वाचकवचनमवलम्ब्य जिनकर्मणां हतवीर्यतया कार्याक्षमत्वं कल्पयन्तस्तद्वलेन क्षुत्तष्णादीनामप्यारम्भसंरम्भसमारम्भवदौपचारिकत्वमात्रमुद्भावयन्ति ते पुनरुक्तवृद्धवचनमनाद्रियमाणा दिगम्बरडिम्भा एव भवन्तः कमीन्तरविपाकवैचित्र्यमपि कथं सहन्ताम् । अपरे तूदीरणां विना प्रचुरपुद्गलोपनिपाताभावाद्भगवदसातवेदनीयस्य दग्धरजुस्थानिकत्वमूचुः तदूषितमाचार्यैरेवैवं सति सातवेदनीयस्यापि तथात्वप्रसङ्गात्, सम्यग्दृष्ट्याोकादशगुण-10 स्थानेषु गुणश्रेणिसद्भावात्तदधिकपुद्गलोपसंहारादधिकपीडाप्रसङ्गाच्च, तस्मादनुभागविशेषादेव फलविशेष इति ध्येयं । परे पुनः प्रबलपुण्योदयाभिभूतत्वमेव पापप्रकृतीनां दग्धरजुस्थानिकत्वमनुमन्यन्ते तदप्यसद्यतो बलवसजातीयसंवलनं ह्यभिभवो, बलवत्त्वं चात्र न स्वविपाकप्रतिपन्थ्यधिकतरविपाकत्वम्, चक्रवादीनामपि क्षुद्वे
Jain Educational
For Private
Personel Use Only
HSjainelibrary.org