SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ - - - उपोद् घातः। RAH श्रावकधर्म- तत्र-एकाऽस्य ग्रन्थस्यान्त्यपृष्ठीया (पृ० १५८)-" मंदमईण हियत्थं एसा चुन्नी समुद्धिया सुगमा । सिरिचंदकुलनहंगणमयंक- 1 पश्चाशक-10 सिरिचंदसूरीणं ॥ १ ॥ सिरिवीरगणिमुणीसरकप्पूरसिद्धंतसिंधुसिस्साणं । सिस्सेहिं सिवमणेहिं सिरिमजसदेवसूरीहिं ।। २ ॥” इति चूर्णिः ।। द्वितीया च-श्रीपाक्षिकसूत्रविवरणान्त्यपत्रीया (प०७८) “चान्द्रकुलाम्बरशशिनो भव्याम्बुजबोधनकदिनपतयः । गुणगणरत्नसमुद्रा आसन् श्रीवीरगणिमिश्राः ॥१॥""श्रीचन्द्रसूरिनामा तेषां शिप्यो बभूव गुणराशिः। आनन्दितभव्यजनः संशितसंशुद्धसिद्धान्तः ॥ ३ ॥ कलिकालदुर्लभानां गुणरत्नानां (लब्धीनां यो) निधानमनवद्यम् । समयावदातबुद्धिस्तथापरो देवचन्द्रगणिः ॥ ४ ॥ श्रीचन्द्रनामसूरेः पादपङ्कजसेविना । दृब्धेयं प्रस्तुता वृत्तिः श्रीयशोदेवसूरिणा ॥ ५ ॥” इति । एतयोः प्रशस्त्योः चान्द्रकुलिनश्रीवीरगणिमिश्रशिष्यश्रीचन्द्रसूरिशिष्यश्रीयशोदेवसूरिवराः सन्ति, अतो आद्य( श्रावकधर्म )पश्चाशकचूर्णेः कर्तारः श्रीपाक्षिकसूत्रविवरणकाराश्च एक एव समभवन् , न भिन्नाः । समयः-अस्याश्चर्णेरन्तिमे पृष्ठे ( १५८)-" नयणमुणिथाणुमाणे ( ११७२ ) काले विगयंमि विक्कमनिवाओ।" इति, पाक्षिकसूत्र विवरणे च-"एकादशशतैरधिकरशीत्याविक्रमाद्तेः (११८०)।" इति दृश्यते । अत इत्थमनुमीयते यत् श्रीयशोदेवसूरिपादानां समयो द्वादशशताब्द्याम् । अत एवास्याश्च चणे रचनासमयो वैक्रमं द्वासप्तत्यधिकैकादशशतम् । चूर्णेः प्रयोजनमहो-ननु कस्मादिदं श्रावकधर्मपञ्चाशक, कस्माञ्च तस्य चूर्णिः !, उच्यते-उपदेष्ट्रभिर्मुख्यतयाऽनगारधर्मः प्रतिपादितव्यः, यदि तदङ्गीकर्तुं श्रोतारोऽशक्तास्तदाऽगारधर्मः प्रज्ञापितव्यः । तमुद्दिश्य श्रीउमास्वातिवाचकमुख्यैः श्रावकप्रज्ञप्तिर्निर्मि81 ताऽस्ति । सा च बृहत्तरा, अतः इदं संक्षिप्तमगारधर्मनिरूपकमाद्यपञ्चाशकम् । RRORRECRock * ॥१२॥ OCAEX Jain Education Intel For Private & Personel Use Only w.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy