________________
आ० प्र०
दर्शनाचार.
॥३२॥
२२.२..अपर
Jain Education Inter
'वीरभोज्या वसुन्धरै 'तिवितर्कधारिणा गङ्गापूरवत्परितः प्रसारिणा सैन्येन सह सहसैव समेत्य वेष्टयते स्मोज्जयनी नगरी, यावच्च मध्यस्थसुभटैः सन्नह्य युध्यते तावदुर्दैववशा दुत्पद्यते स्म विचारधवलनृपतेरनर्थमूलं जठरमहाशूलं, तेन च दग्धोपर्यसाध्यस्फोटकायेणातितरां पीड्यते स्म नृपः, अहह महतामप्यनिर्वाच्या कापि दुरवस्था, यदिवा इतकस्य दैवस्य स्वभाव एवायं यतः - ' वैदेहीदयि - तेऽपि दुष्टहृदयः पार्थेऽप्यनर्थप्रदो, जीमूतेऽपि यथोचितव्यवहृतिः कर्णेऽपि कर्णेजपः । भीमो भीमसुतापतावपि हरिश्चन्द्रेऽपि रौद्राशयः शक्रेऽपि श्रितवक्रिमा हतविधिर्यस्तस्य केऽन्ये पुनः १ ॥ १ ॥ तदवसरे नरेश्वरः सम्यग् धर्मतस्वविचारचतुरः 'धर्मपराणां पुंसां जीवितमरणे सदैव कल्याणे । इह जीवतां विवेकः सद्गतिगमनं मृतानां च ॥ १ ॥ धीरैणवि मरिअ कायरणवि अस्स मरिअ । दुईप हु मरिअ वरं खु धीरतणे मरिउं ॥ २ ॥ इत्यादिसुक्तार्थानुस्मृतैर्धीरमना आरधनाऽनशनादिविविना स्वःसुखास्वादमाससाद, महाशूलाद्युत्पत्तिर्हि प्रायो मृत्युनाटकस्य नांदी, उक्तं हि - " मूलविसअहिविमूइ अपाणिभसत्थग्गिसंभमेहिं च । देहंतरसंक्रमणं करेइ जीवो मुहुत्तेणं ॥ १ ॥ " ततोऽमात्यादिकः 'हतं सैन्यमनायक' मिति कदर्थनभयाद्गोपुरमुद्घाटय पौरैः सह पुरःसरीभूय भूयस्तरादरेणैव प्राभृतमिव जितशत्रुनृपाय पुरी समर्पयामाहे, प्रमुदितेन तेनापि स्वयं तद्रा
मधिष्ठाय मन्त्रयादयः सर्वेऽपि सन्मानदानपूर्वे यथास्वस्वव्यापारं विन्ययोजयन्त । तानि च चत्वार्यपि पुरुषरत्नानि क्ष्मापः परीक्षाञ्चक्रे, परीक्षायां च क्रियमाणायामङ्गमर्द्देन राज्ञोऽङ्गममयत बहुतरेण तैलेन तावद्यावदेकस्यामेव जङ्घायां पञ्चकर्षो तैलमावर्त्तयाञ्चक्रे स्वहस्तादिकलया, ततः पुनः समग्रादपि शरीरादुद्वर्त्तनिकादिप्रयोगेण तत्तैलं निःशेषमप्याचकृषे, परं राज्ञोऽनुज्ञयैकस्या जङ्घायास्तैलं नाकर्षि, अन्योऽपि यः कश्चित्कलावन्मानी मानीभवति सोऽस्या जङ्घायाः स्नेहमाकर्षत्विति नृपपर्षत्समक्षमुच्चैराचरव्ये च, तद्वचनाकर्णनकर्णामोडपीडिताः संवाहककलापण्डिता अभिमानधनास्तदभ्यञ्जनाकर्षणायानेकेऽप्यनेकप्रका
For Private & Personal Use Only
निःशंकि० कोकाशच ॥ ३२ ॥
ww.jainelibrary.org