SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ समयस्त्वं तु समयज्ञः, यः समयज्ञः स सर्वज्ञः तच्चयैव जितं, दीक्षय मक्षु मां शिक्षय प्रशमरसमयं रखसमय, एवमादिवादिनं तं वादिनं वृद्धवादी तत्रैव दीक्षयामास, तं वृत्तान्तं ज्ञाखा भृगुपुरनरेन्द्रस्तत्र तालारसं नाम ग्रामं महान्तं स्थापयामास कारयामास च कृतसुकृतिजनचित्ताहलादं श्रीऋषभप्रासाद, तत्र प्रतिष्ठां श्रीद्धवादी विदधे, श्रीजिनमतं महत्तमामुन्नतिमादधे, सिद्धसेनस्य दीक्षाकाले कुमुदचन्द्रेतिनामासीत्, मूरिपदे पुनः सिद्धसेनदिवाकरति नाम पप्रथे अपरापरभ्यः पूर्ववरेभ्यः वंगतश्रुताध्येतृत्वेन, उक्तं च-"वाई अखमासमगे दिवायरै वायगत्ति एगट्ठा । मुत्ते पुवगर्यमी एए सदा पयट्टति ॥१॥" दिवाकरति सूरेः संज्ञा स्वामिवाचकादिशब्दवत् । अथ श्रीसिद्धसेनदिवाकरः श्रीजिनमतोद्योतेनापि स्वनाम सार्थकीकुर्वाणः पृथ्व्यां विहरमाणः क्रमेणोजयन्यां संमुखागतसङ्घक्रियमाणातुच्छोत्सवः सर्वज्ञपुत्रकेत्यादिवादिषु बन्दिषु चतुष्पथान्तरागच्छन् संमुखागच्छद्विक्रमादित्यतृपेण हस्तिस्कन्धाधिरूढेन सर्वज्ञपुत्रतापरीक्षार्थ मनसैव नमश्चक्रे, नतु शिरोनमनवचनाभ्यां, मूरिस्त्वासनायातस्तस्मै धर्मलाभं बभाग, तदानीं मेदिनीन्द्रः प्राह-हंहो सूरीन्द्रा ! अनमद्भयोऽप्यस्मभ्यं धर्मलाभः कथं दीयते ?, किमयं सप? लभ्यमानोऽस्ति ?, मूरिणा अभाणि-चिन्तामगिकोटिभिरपि दुर्लभोऽयं, त्वं च परीक्षार्थमस्मान् मनसैवानंसीस्तेन तुभ्यं धर्मलाभः प्रादायि, ततस्तुष्टो नृपश्रेष्ठो हस्तिस्कन्धादवरुह्य ववन्दे कनककोटि चानाय्योपददे, गुरुभिर्निस्सङ्गत्वादाज्ञापि कल्पित वादग्रहणे सङ्घ-पुरुषैर्जीर्णोद्धारादावुपयोज्यते स्म, दानवहिकायां त्वेवं लेख्यते स्म-" धर्मलाभ इति प्रोक्ते, दूरादुच्छ्रितपाणये । सूरये सिद्धसेनाय, ददौ कोटि धराधिपः॥१॥ सोऽथ विहरन् विचित्रचित्रकूटं चित्रकूट क्रमादटति स्म, तत्र चिरन्तनचैत्ये स्तम्भमेकं महान्तं दृष्ट्वा कश्चित्पृच्छति स्मकोऽयं स्तम्भः ? किंमयः ?, तेनोचे-पूर्वाचार्यैरिह रहस्यविद्यापुस्तकानि न्यस्तानि सन्ति, स्तम्भस्तु तत्तदोषधद्रव्यमयो वज्र. JainEducationih ional wि .ininelibrary.org For Private & Personal Use Only
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy