________________
प्रारूपि, तदनु एक रत्नं विक्रीय विशेषभोजनादिगृहसामग्री च समग्रां प्रत्यप्रसारां कारयाञ्चकार, ततः क्रमेण स्फायमानामानसमृद्धिः गृहागतानां यतीनां स्वयमेव घृतादिविशुद्धाहारविहारणं नियमितवान् , अन्यदेन्द्रेण तत्प्रशंसायां देवः कश्चिदेव परीक्षांचकार-पर्वोपवासपारणदिने धनदेवो देवपूजां विधाय यावता भोक्तुमुपविशति तावता पश्यति गृहागतं यति,ततः स्वयमुत्थाय यथाविधि प्रासुकैपणीयाहार विहार्य साधून वन्दित्वा यावता मोजनायोपविशति तावता पुनः कश्चिदृषिराजगाम, ततो हष्टस्तथैव दचे स्म, एवं तावद्यावद्य वीनां शतमागतं,प्रवर्द्धमानया श्रद्धया च स्वयमेव सर्वेभ्यो विधिवद्विहारित,ततो दिनावसानभवनेन तद्दिनेऽप्युपोषितस्तस्थौ, अथ निशि धन्यंमन्यतया धनदेवं पुनः पुनः तहानमनुमोदयन्तं साक्षाद्धय सुपर्वा सुपर्वाधिपविधीयगानप्रशंसादि निवेद्य सर्वेष्टसाधकं सर्वोपद्रक्वारकं चिन्तामणि नाम मणि विश्राण्य स्वस्थान भेजे। ततो धनदेवः स्वनियम निर्वाह्याच्युते देवभूयमनुभूय पूर्वविदेहे चक्रित्वं प्राप्य चारित्रेण सिद्धि प्राप्स्यसि ॥ इति दाने | धनदेव निदर्शनम् ॥
शीलपरिशीलनवीर्याचार अभयाराज्ञी विहितविविधोपसगैरपि स्वल्पमप्यक्षुब्धमनस्कः श्रेष्ठी सुदर्शनो निदर्शनं, तपोवीर्याचारे ज्ञाते यथा श्रीवीरजीवः पञ्चविंशे भवे छत्रापापुयौँ नन्दननृपतिः पञ्चविंशतिवर्षलक्षायुश्चतुर्विशतिवर्षलक्षेभ्योऽनु पोट्टिलाचार्यपाधैं तपस्यों स्वीकृत्य यावज्जीवं मासक्षपणाभिग्रहं जग्राह, वर्षलक्षेण मासक्षपणसङ्ख्या यथा" इक्कारस लक्खाई असीइसहस्सा य छसय पणयाला । मासक्खमणा नंदणभवम्मि वीरस्स पंचदिणा ॥१॥" वर्षलक्षस्य षट्पष्टयधिकशतत्रयगुणने जातास्तिस्रः कोटयः षट्पष्टिलक्षा दिनाः , तेषां सपारणदिनतपोदिनैरेकत्रिंशता भागे यथोक्तं
Jain Education in
Altonal
For Private & Personal use only
imw.jainelibrary.org