SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ विज्ञेयं, यदृचे-' इअ संपत्तिअभावे जत्तापूआइ जणमणोरमणं । जिणजइविसयं सयलं पभावणा सुद्धभावेणं ॥१॥” व्याख्या-इति-पूर्वोक्तानां लब्धीनां विरहे, नहि सर्वत्रता लब्धयः सम्भवन्ति, विशिष्य निरतिशयेऽस्मिन् काले, किं कार्यमित्याह -यात्रा-तीर्थेषु सोत्सवं सङ्घन सह गमन, युगप्रधानादेर्वा वन्दनार्थ महा संमुखं यानं, पूजा-कुसुमार्चनं गुरूणां वा वन्दनकादिदानम् । आदिशब्दादभयदानसत्रागारपटहोद्घोषणादि, एवंरूपं देवगुरुविषय सर्वमप्यनुष्ठानं जनमनामीत्युत्पादकं त्रिकरणशुड्या कृतं प्रभावना भवतीति दर्शनसप्ततिकावृत्तौ॥ श्रावकास्तु प्रभावकाः श्रीतीर्थयात्राजिनप्रासादपतिमापतिष्ठासत्रागाराऽमारिपटहोद्घोषणाश्रीगुरुप्रवेशोत्सवकारणसोत्सवश्रीब्रह्मवतसम्यक्त्वादिप्रतिपत्तिसाधम्मिकवात्सल्यादिविविधपुण्यप्रकारैः श्रीजिनमतोन्नतिकारकाः प्रभावकत्वेन ज्ञेयाः । अत्र श्रीनेमिजिनाद्वर्षाणामष्टसहस्रयां व्यतिक्रान्तायां श्रीशत्रंजयरैवतयात्रार्थ साऽभिग्रहं प्रस्थितोऽन्तरा देवकृतविविधोपसर्गरक्षुब्धः श्रीरैवते स्नात्रजलैः प्राक्तनलेप्यमयबिम्बगलने खिन्नः षष्टिक्षपण्याऽराद्वांबादेशमाप्तश्रीब्रह्मेन्द्रकृतवज्रमयश्रीनेमिप्रतिमास्थापकः श्रीरत्नश्रावकः षट्त्रिंशत्सहस्रनव्यश्रीजिनमासादनवनवतिसहस्रश्रीजीर्णचैत्योद्धारसपादकोटिश्रीजिनबिम्बकारिश्रीसम्पतिभूपतिर्देशाष्टादशकामारिपवर्तकचतुर्दशशतमितनव्याहच्चैत्यषोडशसहस्रजीर्णोद्धारकारकद्वासप्ततिलक्षद्रव्यसाधम्मककरमोचकश्रीकुमारपालभूपालः चतुरुत्तरत्रयोदशशतनव्याहच्चैत्यत्रयोविंशतिशतजीर्णोद्धारसप्तशतसत्रागारपवर्तनाचगण्यपुण्यकीर्तनकारिश्रीवस्तुपालतेजपालौ श्रीशत्रुजयतीर्थषट्पञ्चाशटीस्वर्णेन्द्रमालापरिधायिद्वासप्ततिसहस्रटङ्कव्ययश्रीधर्मघोषमूरिपवेशोत्सवविधायकः साधुपेथडः द्वादशोत्तरशतदानशालापवर्तकः साधुजगडूश्चेत्यादयो दृष्टान्ताः स्पष्टा एव ॥ इति तपा०श्रीसोममुन्दरसूरिश्रीमुनिमुन्दरसूरिपट्टा तिष्ठितश्रीरत्नशेखरसूरिविरचिते श्रीआचारप्रदीपे 'दर्शनाचारप्रकाशको द्वितीयः प्रकाशः ॥२॥ For Privale & Personal use only Jain Education Intersnepal INI jिainelibrary.org
SR No.600056
Book TitleAchar Pradip
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages208
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy