________________
मदतः, ऋद्धिरससातरूपगौरवत्रयस्य प्रतिवन्धतः-ममत्वतः या क्रियां कुर्यात 'साऽध्यात्मवैरिणी' ति= अध्यात्मस्वरूपमात्रप्रतिबन्धिकोच्यते, भवामिनन्दिना भौतिकसुखकाम्यया बाह्याचाररूपा धार्मिक क्रियाऽपि क्रियमाणाऽध्यात्म नियमतःप्रतिवघ्नात्येव ।।५।।
अध्यात्म
सारः
॥२३॥
भवाऽभिनन्दिनः स्वरूपम् क्षुद्रो लोभरतिदींनो, मत्सरी भयवान् शटः ।
अज्ञो भवाभिनन्दी स्यानिष्फलारम्भसङ्गतः ॥६॥ 'क्ष'अगम्भीरताकृपणतासंकुचितताऽऽदिदोषदुष्टः, 'लोमरतिः' सांसारिकसुखतत्सामग्रीमात्रविषयकाऽसंतोषसंयुतः, 'दीन: इष्टस्याऽप्राप्तित इष्टवियोगतश्च दीनतासम्पन्नः, 'मत्सरी अन्यस्य शुभंदृष्ट्वा हृदयदाहदग्धः, 'भयवान्' पापाचारतो निरन्तरं भयशङ्काव्याप्तः, 'शठः'मायाकरणपटुः, 'अज्ञः' मोर्व्यतो बालिशः, 'निष्फलारम्भसङ्गतः =कुतत्त्वविषयकाग्रहबलेन निष्फलक्रियासु सर्वधा लग्नो यो भवति स भवाऽभिनन्दी-भवं निसर्गनिःसारमपि मिष्टानादिललनादिभोगोपभोगाभ्यां सारभूत मन्यमानस्तत्रैव रसिकतया रममाणो भवाऽभिन्दी कथ्यते ॥६॥
॥२३॥
Jain Education Internation
For Private & Personal use only
www.jainelibrary.org