________________
दोपदृष्टि विधेया (२०) 'चिन्त्यं देहादिवैरूप्यम्' जात्याद्यपेक्षया नवादिसच्छिद्रद्वारै निर्यदशुचिप्रवाहाऽ
पेक्षया,
अध्यात्म मारः
|५५२॥
रोगविशेषादिप्रभवापेक्षया, शरीरांगोंपाङ्गादिगतं वैषम्यं-वैचित्र्यं चित्ते धारणीयम , (२१) 'भक्तिभगवति धार्या परमैश्चर्यादिसकलगुणाऽतिशयवति भगवति परमपरमेष्ठिरूपे परमेश्वरे भक्तिः आत्मादिसर्वसमर्पणशरणागतिबहमानहार्दिकविनयादिविशेषरूपा भक्तिर्धार्या अन्तःकरणे प्रतिपत्तव्या
(२२) सेव्यो देशः सदा विविक्तश्च'--सर्वथा स्त्रीपशुनपुंसकादिरहितः सन् विविक्तो देशः सदै. कान्तस्थानविशेषः सेव्यः-स्वीकरणीयः
(२३) स्थातव्यं सम्यक्त्वे-चिन्तामणिकल्पपादपाऽधिके, तत्वार्थश्रद्धान-तत्वनिर्णयरूपे अहंदादि सुदेवादितत्त्वत्र यश्रद्धानलक्षणे, निर्विघ्नत्वेनाजगमस्थानप्रापके सम्यक्त्वे आत्यन्तिकैकान्तिकस्थिरता कर्तव्या (२४) विश्वस्यो न प्रमादरिपुः-कदाचिदपि विषयादिप्रमादपंचकस्यात्मवंचकस्य भावमहाशत्रोन विश्वासः करणीयः
(२५) 'ध्येयाऽऽन्मयोधनिष्ठा=आत्मज्ञाने नितरां स्थितिरथवाऽऽत्मज्ञाने पूर्णता ध्यानविषया कर्तव्या (२६) सर्वत्रैवाऽऽगमः पुरस्कार्य:-मर्वकार्यक्रियादावेव शास्त्रमग्रतः कर्त्तव्यम् (२७) त्यक्तव्याः कुविकल्पाः प्रातरे द्रध्याने त्यागविषयीकर्तव्ये, धर्मशुक्लध्याने करणीये
For Private & Personal use only
॥५५२॥
Jain Education Intema
www.jainelibrary.org