SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः । ॥४२६॥ वेदनाऽपि न मूर्त्तत्व-निमित्ता स्फुटमात्मनः । पुद्गलानां तदापत्ते, किन्तशुद्धस्वशक्तिजा ॥४२॥ ___टी० व्यवहारनयेन यदुक्तं 'आत्मनो वेदनादिविषयानुभवस्तस्मादात्मनि मूर्तता कल्पनीयेति तन्निश्चयो न सहतेऽपित वक्ति च 'मृतता भवेत्तदेव वेदनादिविषयकोऽनुभवो भवेदेवेत्याग्रहश्चेत्तदा परमाण्वादिपुद्गलेष्वपि मूर्तताऽस्ति तदा तेषु पुद्गलेषु. आघातादौ जायमाने वेदनादिकानुभवस्यापत्तिरागमिष्यति, अर्थात् सुखादिविषयकानुभवमात्रेणात्मनि न मृर्त्तता मन्तव्या नन्वेवं सत्यात्मनि सुखादिवेढनाया अनुभवः कुतो भवतीति चेत किन्त्वशुद्धस्वशक्तिजा' अशुद्धा या स्वस्यात्मनः शक्तिस्तजन्या अशुद्धस्वशक्तिजा वेदना अर्थात् कर्मसंयोगोपाधिवशाद्, विशुद्धशक्तिरूपशुद्धोपयोगो मलिनः सज्जातस्ततोऽशुद्धस्वशक्तितो वेदनाया अनुभवो भवति, परन्तु मुर्तत्वाधीनो नो वेदनाऽनुभव इति । ४२॥ -स्वयं परिणमत्ययमात्मवेदानाम'अक्षद्वारा यथा ज्ञानं, स्वयं परिणमत्ययम् । तथेष्टानिष्टविषय-स्पर्शद्वारेण वेदनाम् ॥४३।। ॥४२६॥ Jain Education Internatio For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy