________________
अध्यात्मसार:
॥४२२॥
टी. 'तनिश्चयो' आत्मनः कथंचिन्मूर्ततां निश्चयनयो न सहते निश्चयो ब्रूते-यतोऽमृर्तता आत्मा कदाचिदंशेनाऽपि मूर्ततां 'नावगाहेत'-न गच्छेत् , 'इव'-यथा पावकोऽग्निः, अंशेनाऽपि शीततां नावगाहेत-न गच्छेत्तथाऽत्रापि ज्ञेयम् ॥३५॥
-आत्मा मूर्त इति भ्रमः'उष्णस्याऽग्नेर्यथा योगाद् , घृतमुष्णमिति भ्रमः।
तथा मूर्ताऽङ्गसम्बन्धा-दात्मा मूर्त इति भ्रमः ॥३६॥ टी० यथोष्णस्याऽग्ने योगाद्-संयोगात , 'उष्णं घृत' मिति भ्रमः-भ्रान्तिः, तथा 'मृर्ताऽङ्गसम्बन्धात्'= रूपबदेहमयोगसम्बन्धात , मूर्त:-रूपी, आत्मा-जीव इति भ्रमः-भान्तिरूपं मिथ्याज्ञानमिति ॥३६॥
-आत्मनि मूर्तलक्षणस्याऽसंभव:'न रूपं न रसो गन्धो, न न स्पर्शो न चाऽऽकृतिः ।
यस्य धर्मो न शब्दो वा, तस्य का नाम मूर्तता ॥३७॥ टी० यस्य-आत्मनः सकाशे, सर्वथा 'न रूप-रूपमात्राभावः, 'न रसः' रसगुणपर्यायाभावः, 'न गन्धः गन्धगुणपर्यायाऽभावः, 'न स्पर्शो' स्पर्शगुणपर्यायाभावः, 'न चाकृतिः आकारमात्राभावः,
॥४२२॥
Jain Education Interes
www.jainelibrary.org