SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मारः ॥ ३८० ॥ Jain Education Internation परैरपि यदिष्टं च स्थितप्रज्ञस्य लक्षणम् । घटते ह्यत्र तत्सर्वं तथाचेदं व्यवस्थितम् ॥ ६३ ॥ प्रजहाति यदा कामान्, सर्वान् पार्थ ! मनोगतान् । आत्मन्येवाऽऽत्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ ६४ ॥ टी० परैर्दर्शनाऽन्तरीयैरपि यत् स्थितप्रज्ञस्याऽऽत्मनो लक्षणमिष्टं तत्सर्वमंत्र - धर्मध्यान कर्तर्यात्मनिघटतेऽर्थाद्धर्मध्यानी स्थितप्रज्ञ उच्यते तथा चेदं भगवद्गीतायां व्यवस्थितं तद्दर्श्यते । , प्रजहाति प्रकर्षेण जहाति परित्यजति यदा यस्मिन् काले सर्वान् समस्तान् कामान् इच्छाभेदान् हे पार्थ! मनोगतान् मनसि प्रवृष्टान् हृदि प्रविष्टान् । सर्वकामपरित्यागे पुष्टि - कारणाभावात् शरीरधारणनिमित्तशेषे सति उन्मत्तप्रमत्तस्य इव प्रवृत्तिः प्राप्ता इति अत उच्यते-आत्मनि एव प्रत्यगात्मस्वरूपे एव आत्मना स्वेन एवं बाह्यलाभनिरपेक्षः तुष्टः परमार्थदर्शनाऽमृतरसलाभेन, अन्यस्माद् अलंप्रत्ययवान् स्थितप्रज्ञः स्थिता प्रतिष्ठिता आत्मानात्मविवेकजा प्रज्ञा यस्य स स्थितप्रज्ञो विद्वान् तदा उच्यते। त्यक्तपुत्रविचलोक एष संन्यासी आत्माराम आत्मक्रीडः स्थितप्रज्ञ इत्यर्थः । इति शाङ्करमाण्यम् For Private & Personal Use Only ||३८०|| www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy