________________
अध्यात्म-1 सार
॥१९७॥
टीका:-दानादिकाः क्रियाः सम्यकन्वसहिता एव शुद्धा भवन्ति, यद्-'यतस्तासां मोक्षफले = दानादिक्रियाणां मोक्षनामकफले जननीये, अस्य-सम्यक्त्वस्य सहकारिताऽपेक्षा कथिता, तस्मात सम्यक्त्वं विहाय दानादिकाः क्रिया मोक्षफलदाने न प्रत्यला इति ॥२॥
___ -नाऽन्यो जयति वैरिणम् - 'कुर्वाणोऽपि क्रियां ज्ञाति-धनभोगांस्त्यजन्नपि । दुःखस्योरो ददानोऽपि नाऽन्धो जयति वैरिणम् ॥३॥ कुर्वन्निवृत्तिमप्येवं कामभोगांस्त्यजन्नपि ।
दुःखस्योरो ददानोऽपि, मिथ्यादृष्टिर्न सिद्धयति ॥४॥ (युग्मम् ) टीकाः 'ज्ञातिधनभोगान्' =ज्ञातिश्च धनं च भोगश्च ज्ञातिधनभोगास्तान् , त्यजनपि-त्यागविषयान् कुर्वनपि, अर्थात् स्वजनसम्पत्तिभोगत्याग्यपि, क्रियां कुर्वाणोऽपि-क्रियाकार्यपि, 'दुःखस्योरो ददानोऽपि' दृढे नोरसा दुःखानि प्रति योद्धसज्जः सन् प्रतिकरोति तथाप्यन्धो वैरिणं न जयतीति ॥३॥
- एवं मिथ्यादृष्टि न सिडयति - एवंरीत्या 'कामभोगांस्त्यजमपि-शन्दादिककामभोगत्याग्यपि, निवृत्तिमार्गे गन्तुसज्जोऽपि स्यात , आगन्तुकदुःखानि प्रतिकुर्वमपि मिथ्यादृष्टिर्न सिद्धयति ॥४॥
॥१९७॥
Jain Education Internati
For Private & Personal use only
iw.jainelibrary.org