________________
अध्यात्म सारः
द्वितीयाधिकारे अध्यात्मस्वरूपनिर्णयः, सर्वयोगेष्वध्यात्मम्य व्यापकता । चतुर्दशगुणस्थानेषु क्रमशुद्धा क्रियाऽध्यात्ममयी । अध्यात्मवैरिणीक्रियावर्णनं, भवाभिनन्दि स्वरूपं, अध्यात्मगुणवर्धिनी क्रिया,
क्रमशो दर्श्यमानाऽध्यात्मक्रियाया असङ्ख्य कर्मनिर्जराकारित्वं । शुद्धज्ञानक्रियांशद्वयात्मकमध्यात्मम् । कुत्र । * कुत्र गुणस्थाने निश्चयो वा व्यवहारो वा अध्यात्मं मन्यते । अपुनर्वन्धकस्य शमयुता क्रिया दर्शनभेदेन
चित्रा । धर्मविनक्षयाय सदाशयादशुद्धाऽपि क्रियाशुद्ध क्रियाहेतु भवति । मार्गप्रवेशाय मिथ्याशा द्रव्यसम्यक्त्वमागेप्य व्रतदानम् , दीक्षा योग्यताया वणनं, अशुद्धक्रियाया अनादरोऽभ्यासदशायां न कत्र्तव्यः। दीक्षादातृविशिष्टगुगे दोषाऽसम्भवः । विषय (लक्ष्य) शुद्धं-कर्म आन्म (म्वरूप) शुद्धं कर्म । अनुबन्ध शुद्ध कर्म, मोझाशयाद् द्रव्यक्रियाप्यादरणीयैव, अन्ते ज्ञानक्रियारूपमेवाध्यात्मम् ॥
तृतीयोऽधिकार:-दम्भाशोऽपि मल्लिनाथादीनां महतां स्त्रीत्वरूपानर्थ-निवन्धनं भवति, मुक्तिक्रियाऽध्यात्म सुखजानव्रतप्रतिबन्धको दम्भः । दौर्भाग्यकाम-व्यसनजनको दम्भः । व्रतादिधारणं कृत्वा | परमपदेच्छां दम्भो निष्फलो-करोति । दम्मो यदि यस्य न गतस्तस्य व्रततपत्रादि निरर्थकं, भिक्षोः शुभाचारः
सर्वो दम्भेन दुष्यत एक कामभोगादिः सर्वः सुत्यजः परन्तु दुस्त्यजं दम्भसेवनम् दम्भो मूढान गौरवादिना प्रलोभ्य नरकादिदुर्गतौ पातयति । वेषभृतां व्रतं दम्भेनाऽव्रत वृद्वयर्थ भवति । दम्भे दृढं विश्वस्ता जानाना अपि मूढाः प्रतिपदं स्खलन्ति । दम्भेन मोहेन दीक्षा लुम्पन्ति मूढाः । धर्मे दम्भ उपद्रवः । साधुगुणपालने
॥१३॥
Jan Education Internet
For Private & Personal use only
www.jainelibrary.org