________________
॥ ५३ ॥
पुण्डरीक - इति ते प्रणिगय भूमिषः प्रभुनष्टापदपर्वतस्थितम् । अभिगम्य मुदा प्रणम्य चाऽभ्यधुरुचैर्भरतांऽऽभियोगिकम् शुचिशान्त विलोचनांशुभिर्भगवानेष सुवाकणैरिव । अभिषिच्य जगौ निजाङ्गजांस्तदस्यानलशान्तये किल अनयाऽऽश्रितया श्रियाऽनया ननु यूयं तनया नयाधिकाः । कथमिच्छत संगमं हहा ! शुचिचित्ता इव धूर्तवेश्यया स्वपुर/जित पुण्यनीरदात् धनपूरो भविता विनश्वरः । स्थिरमत्र तु केवलं ततोऽद्भुतशीलद्रुममूलनाशनम् !!! अतिकुत्सतरै विनश्वरैर्भवभोगैः नरकान्तकारकैः । इह तुष्यति रङ्कवज्जनः शिवराज्याय करोति नोद्यमम् ५६ नवरा - ऽमरराज्यसौख्यदः परमात्मा परमः सुरद्रुमः । प्रकटीक्रियतामथ व्रतैर्विषयाशाविषवल्लिनाशनात् ॥५७॥ अपमानकलङ्कपाप्मनां विषयेच्छा ध्रुवमूलमंत्र भोः । । तदिमामपहाय मुक्तये सुकृताढ्याः कुरुताssदरं स्यात् वचसा मनसाऽङ्गकेन च श्रुत- सद्ध्यान- तपस्स्विह क्षमाः । दुरितान् कुशरीरसंगतान् ननु यूयं किमथो करिष्यथ ? विभुवाक्यमिदं निशम्य ते शमिनः संयमिनश्च जज्ञिरे । भरताय निजेश्वराय तेऽप्यथ दूता अभिगम्य चावदन्
४
८
भरतेन लघुबन्धु - राज्यानि ग्रसितानि -
अथ भूतिभृतानि जग्रसेऽनुजराज्यानि स सार्वभौमर । द्। स्फुटवह्निरिवेन्धनान्य हो ! अशनीनीव धनानि भस्मँकी भरतं सैन्यपो व्यजिज्ञपत्
१२
१ नरशेखर शेखरीकृतक्रमयुग्मं भरतेशमन्यदा । प्रणिपत्य सुषेणसैन्यपः समुपेतः सदसि व्यजिज्ञपत् ॥ ६२ ॥
१ भरतदूतकथितसंदेशम् । २ अनयो हि अन्यायः, तम् आश्रितया अनया श्रिया । ३ अत्र संसारे केवलम् - आत्मतत्वं स्थिरम्, अत एव यद् यूयं शीलदुममूलनाशनं कर्तुमुद्यताः- तद् अद्भुतम् - इति गम्यते । ४ पुस्तके तु 'परहांत' इति अस्पष्टम् । ५ स्याद् वेगात् । ६ अशनानि भोजनानि । ७ भस्मकी भस्मकरोगवान् ।
For Private & Personal Use Only
Jain Education International
सर्ग: - २
www.jainelibrary.org