________________
४८॥
पुण्डरीक-अयमादिजिनेन्द्रनन्दने भुवनेन्द्रो धृतरागधी-रयः । हृदयं मम धीरयत्यपि स्वदृशा सौम्यरुचिस्पृशा भृशम् ॥२॥ ४ चरिक
-इति स्मयः। सर्गः-२ भुवनोत्तमकामिनीजनो हृदये ध्यायति यं रतक्षणे। रमयेद् यदि सोऽपि मा विभुः परशृङ्गारसुवासुवाम्बुधिः॥३8
-इति स्मरः । भरतेश्वरनेत्रजं जनद्वितयीहृत्कमलेऽस्ति मे तथा। अचिरादपि कामिनीजनप्रभुता संभवितेति वेम्यहम् ॥ ४४
-इति हर्षः॥ किमु मौग्ध्यमथो महोदधेः किमहं ज्ञानमहोदधेः पुरः। विदुषा विभुनाऽधुनाऽमुनासह शक्ष्यामि न वक्तुमुत्तमम्॥५३॥
-इति साध्वसम् ॥ चिरमित्यनुचिन्त्य ढोकने निहितेऽसौ सुरसिन्धुदेवता । प्रणनाम सखीशताऽऽवृता भरतं भारतभूमिदैवतम् ॥६॥४
___ या सुरी सा गङ्गाःप्रतिहारिकया सुविष्टरे निहिते रत्नमये सुरापगा। भरतेशितुरग्रतस्तदा प्रविवेश स्मितहष्टलोचना ॥७॥ प्रथितप्रभुता-पवित्रितं पृथिवीशोऽप्रथयद् वचः शुचि। सुखिनी किमु देवि ! विद्यसे सं पुनाना जगतो जनं जलैः॥ अवदत् स्मितभासुरीकृताऽखिलरत्नप्रतिभा सुरी च सा।
जयति त्वयि देव! किं कुतोऽप्यसुखं स्याद् जगदीश! जन्मिनाम् ॥९॥8 नवकीर्तिसरोऽन्तरे मनः-कलहंसः सुखितोऽस्मि मे तरन् । भवताऽस्मि कृता पवित्रतास्पदमद्य त्वनवद्यदर्शन॥8.
१ म-आसने । २ स पृथिवीशः ।
COOOOOOOOOOOOOOOOO
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org