________________
।
अस्या आस्यशुकं शुतक्षियपदं तत् प्राप दुष्प्रापवाक् - पीयूषमसरात् प्रसिद्ध विबुधप्रीतिपदं प्रोज्ज्वलम् ॥९३॥ ॥ ४७ ॥ निःश्रीकं नवनीलनीरजमहो ! लीलाऽनिलान्दोलितं, ज्ञातेयाय चलन् कृतप्लुतिरपि स्यात् खञ्जनः खञ्जरुक् सारङ्गी भयतस्त्रसत्प्रचलिताऽपाङ्गाऽपि रङ्गाय नो, अस्याः प्रेश्य मद-प्रमोदरसकृत्संवीक्षणे वीक्षणे ॥९४॥ १ दोषोत्थानमवेक्ष्य नाशमपि च ज्ञात्वाऽऽयुषस्तौ खलु चक्रौ तीव्रतरं यदक्षतमिह ब्रह्मव्रतं चक्रतुः । तेनाऽस्यां स्मरवासचामरपुरि प्रौढस्तनौ निर्जरी, जज्ञाते सुकृतेन सुस्थिरनिजज्ञातेयसंयोगिनी ॥ ९५ ॥ इति चिन्तयतोऽस्य भूपतेः पुरतः क्षीरतरङ्गगौररुक् । कलिताऽद्भुतरत्नपादुका प्रलुलन्नीलदुकूल भासिनी ९६ अमरेंद्रुमपुष्पगुम्फनोत्तमधम्मिल्लसमुल्लसत्प्रभा । मितदिव्यविभूषणा सुरी सुरसिन्धुः पुरतः समाययौ ॥ ९७
४
सुरीकृता भरतशंसा:
८
अथ भारतभूस्थिराखिलत्रिदशैश्वर्यभवनिया श्रितम् । द्विसहस्रमितैः सुरोत्तमैः सकलाङ्गं विकलङ्कतेजसम् ॥ ऋषभप्रभुनन्दनं नरामरशृङ्गारशिरोमणिं तु सा । अवलोक्य सविस्मय- स्मय- स्मर-हर्ष- स्थिरसाध्वसाऽजनि ॥ उपढौकयति स्म ढौकनान्यथ यावच्च सखी मनोरमा । इह तावदियं सुरापगा हृदये ध्यातवतीति विस्मिता २०० १२ ४ गरिमां गुणिनां गुणज्ञतां ललितत्वं चतुरत्वनिर्मलम् । जगदुत्तम निस्तमस्तनु प्रतिभैवाऽस्य विभोर्विभासयेत् ॥ १ - इति विस्मयः ।
१ शुको हि प्रसिद्धः । २ शुनं वृद्धिं गतम् । ३ अनिलः पवनः । ४ ज्ञातिभावाय । ५ खञ्जकान्तिः । ६ दोषाया रात्रेः उत्थानम्, दोषस्य उत्थानम् । ७ नात्राक्षराणि पठितुं शक्यन्ते - पुस्तके ' त्वक्षषः' इति अस्पष्टम् । ८ चक्रवाकीचक्रवाकौ । ९ ब्रह्मचर्यम् । १० अमरद्रुमः कल्पवृक्षः ।
Jain Education Interional
For Private & Personal Use Only
परिश्रम्
सर्गः - २
11.89 11
ainelibrary.org