________________
नरसिंह! सुसिंहविष्टरं त्वमिहाऽलंकुरु विष्टपाधिप ।। ऋतुराजसुखं गृहाण च श्रममुचैर्निर्गृहाण च क्षणम् ॥३० ॥ ४० ॥ | अनुमत्य सुरागधीगिरः क्षितिपो निर्मलमागधीगिरः । स तु रङ्गमिवाऽऽत्मचेतसि प्रवहन्नेव तुरंगमत्यजत् ॥ ३१ ॥ अथ तत्र मृगेन्द्रविष्टरे विनिविष्टेऽखिलविष्टपेश्वरे । भरताधिपवल्लभाऽपि सा गुरुभद्रासनमाश्रयत् पुरः ॥ ३२ ॥ नृपदृष्टिमथो निजांशुकैविरजीकृत्य तदा प्रियंवदम् । उपदेशयति स्म चासने सुदृशो नोचितवञ्चिताः क्वचित् ॥ अथ भारतभूपभूषणप्रचयाय प्रसवावेचायकाः । कुसुमावचयाय नायकाः प्रययुर्दिव्यवनान्तरेऽभितः ॥३४॥ पुनरप्यवदत् प्रियंवदो निभृतं संभृतकौतुकोत्सुकः । इह दिव्यविमानमद्भुतं गगने यति विभोऽवधीयताम् ॥ इह काऽप्यमरी निजेश्वरीं प्रति कस्याऽप्यधिपस्य वर्णनम् । विद्धाति ततो जगत्प्रभो ! निभृतीभूय निशम्यते क्षणम् अनुमत्य सुमत्यलंकृतं वचनं तस्य चकार चक्रयपि । श्रवणौ श्रवणोद्यतौ निजौ नमयेत् प्रेम मम प्रभोरिति ३७ अथ भारतभूपतिस्तदा सकलान्तःपुरसंयुतो मुदा । अशृणोत् स्वशिरोऽम्बर । दिति श्रुतिलेपे घुसृणोपमं वचः ॥
४
तथाहि - गगने देवीकृता भरतवर्णना
१२
अमरीणामरीणां च महसां मोहयन् मनः । स वीरवरशृङ्गारो जीयाद् भरतभूपतिः ॥३९॥ यो राजा यंदु (?) वाचि भङ्गमतनुं कम्पं तनौ सर्वतो वैवर्ण्य निजदर्शनेन विततं स्वेदं च रोमोद्गमम् । वामानां द्वितयस्य मानहननं मारेण कुर्वन् समं शृङ्गारं च भयं च यत् पृथगदात् तत् कर्मजं तत्फलम् ॥ ४० ॥ आदौ येन सुविग्रहे क्षतर्मुरः पीठे प्रदत्तं रसात् संप्राप्य द्विविधा अपीह सुभगंमन्या महानायकाः ।
१ पुष्पोश्चयकारकाः । २ न गम्यतेऽत्र यदु-शब्दार्थ : - कदाचित् ' यदु' स्थानेऽन्यदपि पदं भवेत् । अथवा ' यदु ' इति 'यत्+उ' एवम् अव्ययं भवेत् । ३ क्षतम्- खण्डितम् - उरः वक्षस्थळम् ।
Jain Education national
For Private & Personal Use Only
चरित्र
सर्गः - २
11·8011 v.jainelibrary.org