SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ॥३०९॥ 500000000000000000000000000000000000000000000000000089 भरतमुनिवरादिस्पर्शपाविन्यपुण्यं सुकृतशतसुलभ्यं प्राप्य पूर्वाऽनवाप्तम् । __ स्वपतिपरिहताभ्यस्तत्प्रियाभ्योऽखिलाभ्यः समधिकमिव मेने सो धरित्री तदा स्वम् ॥१८॥ अमृतरुचिरसौ सत्तारकेशो विनिद्रं कु-वलयमपि कुर्वन् भग्न-चक्रप्रमोदः। भविकजनचकोरान् श्रीणयन् पूर्वलक्षं महदिह मह उच्चनिर्मलं स्वं ततान ॥३९॥ (भरतमति) भरतमुनिरमीभिः संयुतोऽष्टापदादि सुयतिभिरधिरुह्य स्थानमायेशसिद्धः। परिचरति सुरेन्द्र तत्र मासोपवासादरुजमजर-मृत्यु प्रापिवान् मोक्षसौख्यम् ॥७॥ इति भरतसुचक्री सप्ततिं सप्तयुक्तां सति पितरि जिनेन्द्रे पूर्वलक्षान् कुमारः। नृपतिरथ सहनं वत्सराणां तदूनानथ समजनि चक्री पूर्वलक्षान् परेव ॥७१॥ घृतयतिजनवेषः पूर्वलक्ष तर्थक व्यहरदथ पृथिव्यां केवलज्ञानयुक्तः। इति स चतुरशीतिं पूर्वलक्षान् निजायुः प्रथमंजिनपपुत्रः पालयामास चक्री ॥७२॥ भरतमुनिवरेन्द्रस्योर्ध्वदेह क्रियाय सह रवियशसा तत्प्रौढपुत्रेण युक्तः । व्यरचयदमरेन्द्रस्तत्र चाष्टापदाद्री सुरभिसलिलवृष्टिं नीरदाश्चक्ररुच्चे स भरतपतिपुत्रस्तत्र चादित्यकीतिः कनकमयमनध्य कारयामास धाम । प्रथमजिनपमूर्तर्दक्षिणे चक्रति व्यरचयदथ मध्ये तस्य पुण्यप्रशस्थः ॥७४॥ गतवति सुरराजे सोऽप्ययोध्यां समेतो गुरुभरतविहारं तत्र शत्रुजये च । १. भवतारकाणाम् देशोपि। २ पृथ्वीवलयमपि । ३ चक्रवाकोऽपि । ४ इकारान्तोऽपि भवेदय शब्दः । 00000000000000000000000000000000000000000000 Jain Education in For Private & Personal Use Only ainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy